वैशंपायन उवाच ।
११.१०.१
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् ।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च ॥
M N Dutt
Vaishampayana said “Within two miles after his departure Dhritarashtra, met with those three great carwarriors, viz., Sharadvat's son Kripa, Drona's son (Ashvatthaman), and Kritavarman.
११.१०.२
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् ।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् ॥
M N Dutt
As soon as the latter saw the blind king, possessed of great power, the three heroes sighed in grief and with voices choked in tears weepingly said,-'Your royal son, O king, having performed the most difficult feats, has, with all his followers, gone to the region of Indra.
११.१०.४
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः ।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ ॥
M N Dutt
We are the only three car-warriors of Duryodhana's army that are yet alive. All the others, O foremost of Bharata's race, have died.'
११.१०.६
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् ।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः ॥
M N Dutt
Having said these words to the king, Sharadvat's son Kripa, addressing the griefstricken Gandhari, said to her,-'Your sons have fallen, performing heroic and wonderful deeds, in the battle-field.
११.१०.७
ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् ।
भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥
भास्वरं देहमास्थाय विहरन्त्यमरा इव ॥
M N Dutt
Forsooth having, obtained those bright worlds that are attainable only by the use of weapons, they are playing there like celestials, having assumed shinning forms.
११.१०.८
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः ।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः ॥
M N Dutt
Amongst those heroes there was no one that fled from battle-field. Every one of them has fallen at the end of weapons. None of them joined his hands, and prayed for mercy.
११.१०.९
एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् ।
शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि ॥
शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि ॥
M N Dutt
Death in battle by weapons has been described by the ancients as the best that a Kshatriya can obtain. You should not, therefore, grieve for any of them.
११.१०.१०
न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः ।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः ॥
M N Dutt
Their enemies, O queen viz., the Pandavas, too, have not been more fortunate. Hear, what we, headed by Ashvatthaman, have done to them.
११.१०.११
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् ।
सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ॥
सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् ॥
M N Dutt
Learning that your son had been killed unrighteously by Bhima, we massacred the Pandavas when asleep after entering these camp.
११.१०.१२
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः ।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः ॥
M N Dutt
All the Panchalas have been killed. Indeed, all the sons of Drupada, as also all the son of Draupadi, have been massacred.
११.१०.१३
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते ।
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ॥
प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः ॥
M N Dutt
Having caused this massacre of the sons of our foes, we are flying away because we three cannot fight with them.
११.१०.१४
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः ।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः ॥
M N Dutt
Our enemies, the Pandavas, are all heroes and great bowmen. They will soon attack us, filled with rage, for taking vengeance on us.
११.१०.१५
निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः ।
निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ॥
निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि ॥
M N Dutt
Informed of the massacre of their sons, those foremost infuriate with rage, those heroes,-Oillustrious lady, will soon pursue us.
११.१०.१६
पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे ।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः ॥
M N Dutt
Having caused this massacre we dare not stay. Grant us permission, O queen. You should not grievc.
११.१०.१७
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् ।
निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ॥
निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् ॥
M N Dutt
Grant us your permission also, O king! Summon fortitude, and observe the duties of a Kshatriya in their highest form.'
११.१०.१८
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् ।
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ॥
कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत ॥
M N Dutt
Having said so to the king, and going round him, Kripa and Kritavarat man and Drona's son, O Bharata, without being able to take of men, son away their eyes from the wise king Dhritarashtra, urged their horses towards the banks of the Ganges.
११.१०.२०
अपक्रम्य तु ते राजन्सर्व एव महारथाः ।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ॥
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः ॥
M N Dutt
Leaving thàt place, O king those great carwarriors, with hearts stricken with anxiety, took one another's leave and separated from one another.
११.१०.२१
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा ।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ ॥
M N Dutt
Sharadvat's Kripa went to Hastinapura; Hridika's son went to his own kingdom; while the son of Drona started for the hermitage of Vyasa.
११.१०.२२
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् ।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् ॥
M N Dutt
Thus those heroes, who had offended the great sons of Pandu, respectively proceeded to the places they selected, on one another.
११.१०.२३
समेत्य वीरा राजानं तदा त्वनुदिते रवौ ।
विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ॥
विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः ॥
M N Dutt
Having met the king thus, those heroes, went away before the sunrise, O king, to the places they selected.
॥ इति ११.१० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.