इन्द्र उवाच ।
१.८३.१
सर्वाणि कर्माणि समाप्य राज
न्गृहान्परित्यज्य वनं गतोऽसि ।
तत्त्वां पृच्छामि नहुषस्य पुत्र
केनासि तुल्यस्तपसा ययाते ॥
न्गृहान्परित्यज्य वनं गतोऽसि ।
तत्त्वां पृच्छामि नहुषस्य पुत्र
केनासि तुल्यस्तपसा ययाते ॥
M N Dutt
Indra said: O king, O son of Nahusha, O Yayati, after accomplishing all your duties, you went to the forest, leaving your home. I ask you, tell me like whom you are in ascetic merits.
ययातिरुवाच ।
१.८३.२
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु ।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥
M N Dutt
Yayati said: O Vasava (Indra), I do not find among men, the celestials, the Gandharvas and great Rishis, any one equal to me in ascetic merits.
इन्द्र उवाच ।
१.८३.३
यदावमंस्थाः सदृशः श्रेयसश्च
पापीयसश्चाविदितप्रभावः ।
तस्माल्लोका अन्तवन्तस्तवेमे
क्षीणे पुण्ये पतितास्यद्य राजन् ॥
पापीयसश्चाविदितप्रभावः ।
तस्माल्लोका अन्तवन्तस्तवेमे
क्षीणे पुण्ये पतितास्यद्य राजन् ॥
M N Dutt
Indra said: O king, as you disregard those that are your superiors, those that are your equals and those that are your inferiors, your virtues, therefore, suffer a diminution and thus you must fall from heaven.
ययातिरुवाच ।
१.८३.४
सुरर्षिगन्धर्वनरावमाना
त्क्षयं गता मे यदि शक्र लोकाः ।
इच्छेयं वै सुरलोकाद्विहीनः
सतां मध्ये पतितुं देवराज ॥
त्क्षयं गता मे यदि शक्र लोकाः ।
इच्छेयं वै सुरलोकाद्विहीनः
सतां मध्ये पतितुं देवराज ॥
M N Dutt
Yayati said : O king of the celestials, if my virtues have really been diminished (by my pride), let me fall at least among men who are virtuous and honest.
इन्द्र उवाच ।
१.८३.५
सतां सकाशे पतितासि राजं
श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।
एवं विदित्वा तु पुनर्ययाते
न तेऽवमान्याः सदृशः श्रेयसश्च ॥
श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।
एवं विदित्वा तु पुनर्ययाते
न तेऽवमान्याः सदृशः श्रेयसश्च ॥
M N Dutt
Indra said: O king, you shall fall among those that are virtuous and honest. You shall also gain great renown. O Yayati, after your this experience, never again disregard any one, your superiors, your equals or even your inferiors.
वैशंपायन उवाच ।
१.८३.६
ततः प्रहायामरराजजुष्टा
न्पुण्याल्लोकान्पतमानं ययातिम् ।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त
मुवाच सद्धर्मविधानगोप्ता ॥
न्पुण्याल्लोकान्पतमानं ययातिम् ।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त
मुवाच सद्धर्मविधानगोप्ता ॥
M N Dutt
Vaishampayana said : Thereupon Yayati fell from the region of the holy. And he was seen when thus falling by that royal sage, Ashtaka, the protector of religion. Seeing him he asked.
१.८३.७
कस्त्वं युवा वासवतुल्यरूपः
स्वतेजसा दीप्यमानो यथाग्निः ।
पतस्युदीर्णाम्बुधरान्धकारा
त्खात्खेचराणां प्रवरो यथार्कः ॥
स्वतेजसा दीप्यमानो यथाग्निः ।
पतस्युदीर्णाम्बुधरान्धकारा
त्खात्खेचराणां प्रवरो यथार्कः ॥
M N Dutt
Ashtaka said: Who are you, young as you are, as handsome as Indra, as prominent by your own splendour as that of fire? Who are you falling like the foremost ranger of the sky, the sun, driving away the dark masses of clouds?
१.८३.८
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं
वैश्वानरार्कद्युतिमप्रमेयम् ।
किं नु स्विदेतत्पततीति सर्वे
वितर्कयन्तः परिमोहिताः स्मः ॥
वैश्वानरार्कद्युतिमप्रमेयम् ।
किं नु स्विदेतत्पततीति सर्वे
वितर्कयन्तः परिमोहिताः स्मः ॥
M N Dutt
Seeing you fall from the region of the sun, as effulgent as the fire or the sun, all men are asking themselves, "What is this that falls?" They are deprived of their consciousness.
१.८३.९
दृष्ट्वा च त्वां विष्ठितं देवमार्गे
शक्रार्कविष्णुप्रतिमप्रभावम् ।
अभ्युद्गतास्त्वां वयमद्य सर्वे
तत्त्वं पाते तव जिज्ञासमानाः ॥
शक्रार्कविष्णुप्रतिमप्रभावम् ।
अभ्युद्गतास्त्वां वयमद्य सर्वे
तत्त्वं पाते तव जिज्ञासमानाः ॥
M N Dutt
Seeing you in the path of the celestials, as effulgent as Surya, Indra or Vishnu, we have all come to you to ascertain the truth.
१.८३.१०
न चापि त्वां धृष्णुमः प्रष्टुमग्रे
न च त्वमस्मान्पृच्छसि ये वयं स्मः ।
तत्त्वां पृच्छामः स्पृहणीयरूपं
कस्य त्वं वा किंनिमित्तं त्वमागाः ॥
न च त्वमस्मान्पृच्छसि ये वयं स्मः ।
तत्त्वां पृच्छामः स्पृहणीयरूपं
कस्य त्वं वा किंनिमित्तं त्वमागाः ॥
M N Dutt
O enviably handsome one, we would not have been guilty of incivility by first asking you who you are, if you would have asked us first who we are. We ask you, (tell us) who you are and why you come here?
१.८३.११
भयं तु ते व्येतु विषादमोहौ
त्यजाशु देवेन्द्रसमानरूप ।
त्वां वर्तमानं हि सतां सकाशे
नालं प्रसोढुं बलहापि शक्रः ॥
त्यजाशु देवेन्द्रसमानरूप ।
त्वां वर्तमानं हि सतां सकाशे
नालं प्रसोढुं बलहापि शक्रः ॥
M N Dutt
O Indra-like great one, let your fears be dispelled, let your woes and afflictions cease. । You are now in the presence of the virtuous and the wise. Even Indra, the slayer of Bala, cannot do you any harm.
१.८३.१२
सन्तः प्रतिष्ठा हि सुखच्युतानां
सतां सदैवामरराजकल्प ।
ते संगताः स्थावरजङ्गमेशाः
प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥
सतां सदैवामरराजकल्प ।
ते संगताः स्थावरजङ्गमेशाः
प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥
M N Dutt
O Indra-like great one, the honest and the virtuous are the support of their brethren. Here are assembled the protectors of the movable and the immovables of the world, the honest and the virtuous. You are now with such ones.
१.८३.१३
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥
M N Dutt
As Agni is the lord that gives heat, as earth is the lord that holds the seed (and produces corn), as sun is the lord that dispels darkness, so is a guest the lord of the honest and the virtuous.
॥ इति १.८३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.