तक्षक उवाच ।
१.३९.१
दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥
M N Dutt
Takshaka said : O Kashyapa, if you are able to cure any creature bitten by me, then revive this tree bitten by me.
१.३९.२
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
M N Dutt
O best of Brahmanas, I burn this banian tree in your sight. Try your best; and show me your skill in Mantras of which you have just spoken.
काश्यप उवाच ।
१.३९.३
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे ।
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ॥
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ॥
M N Dutt
Kashyapa said: O snake, if you are so minded, bite (the tree then). I shall revive it, though bitten by you.
सूत उवाच ।
१.३९.४
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥
M N Dutt
Sauti said : The king of the snakes, thus addressed by the illustrious Kashyapa, bit that banian tree.
१.३९.५
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥
M N Dutt
The tree, bitten by the illustrious snake and having embibed his poison, blazed up all around.
१.३९.६
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥
M N Dutt
Having thus burnt the tree, the snake spoke again to Kashyapa, "O best of Brahmanas, try your best and let this lord of the forest (the banian tree) be revived."
१.३९.७
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥
M N Dutt
The tree was reduced to ashes by the poison of the king of snakes. But taking up the ashes, Kashyapa spoke these words.
१.३९.८
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥
M N Dutt
"O king of snakes, behold my power of learning in this lord of the forest. O snake, I shall revive it in your very presence.”
१.३९.९
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥
M N Dutt
And then that best of Brahmanas, the illustrious and learned Kashyapa, revived by his learning the tree which was reduced to a heap of ashes.
१.३९.१०
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥
M N Dutt
He first created the sprout, he then created two leaves in it. He then made the stem, then the branches and then the full-grown tree with leaves and all.
१.३९.११
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥
M N Dutt
Seeing that the tree was really revived by the illustrious Kashyapa, Takshaka said, “O Brahmana, it is not (at all) wonderful.
१.३९.१२
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥
M N Dutt
That you should destroy my poison or the poison of others like me. O king of Brahmanas, O Rishi, wishing to gain what wealth, are you bent on going there?
१.३९.१३
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् ।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥
M N Dutt
I shall give you the wealth you hope to get from the best of kings, however difficult may it be get it.
१.३९.१४
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥
M N Dutt
O Brahmana, your success is doubtful, for that king is affected with a Brahmana's curse and the period of his life is also shortened.
१.३९.१५
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥
M N Dutt
Your blazing fame, that has overspread the three worlds, will (then) disappear the sun deprived of his splendour.
काश्यप उवाच ।
१.३९.१६
धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम ।
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥
M N Dutt
Kashyapa said : I go there for wealth. Give it to me, o snake, so that I may go back receiving it from you.
तक्षक उवाच ।
१.३९.१७
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
M N Dutt
Takshaka said : O best of Brahmanas, I shall give you wealth more than you hope to get from the king. Therefore do not go. w
सूत उवाच ।
१.३९.१८
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥
M N Dutt
Sauti said: Having heard what Takshaka said, the best of Brahmanas, the wise and greatly powerful Kashyapa, sat in meditation.
१.३९.१९
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ।
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ।
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥
M N Dutt
The greatly powerful man (Kashyapa), ascertaining by his ascetic powers that the period of the life of the king of the Pandava race had really run out, went back, after receiving from Takshaka as much wealth as he desired to possess. On the great Rishi Kashyapa's departure, Takshaka went with speed towards Hastinapur.
१.३९.२१
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ।
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥
M N Dutt
Takshaka heard, on his way, that the king of the world was living very carefully, protected by poison-neutralising Mantras and medicines.
१.३९.२२
स चिन्तयामास तदा मायायोगेन पार्थिवः ।
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥
M N Dutt
Thereupon the snake reflected, saying. “The king must be deceived by me by my Maya (power of delusion). But what must be the means?"
१.३९.२३
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् ।
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥
M N Dutt
Takshaka then sent some snakes in the guise of Brahmanas with fruits Kusha grass and water as presents.
तक्षक उवाच ।
१.३९.२४
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ।
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥
M N Dutt
Takshaka said: thus Go you all to the king, saying that you have urgent business and showing no impatience, as if you want to make him a present of the fruits, flowers and water.
सूत उवाच ।
१.३९.२५
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः ।
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥
M N Dutt
Sauti said: The snakes, commanded by Takshaka, did (as they were ordered to do) They took to the king, Kusha grass, water and fruits.
१.३९.२६
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ।
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥
M N Dutt
The greatly powerful king of kings accepted their presents and when their business was finished, he said, “Now retire."
१.३९.२७
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ।
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥
M N Dutt
When those disguised snakes had gone away, the king addressed his ministers and “Eat with me all these fruits of excellent taste, brought by the ascetics."
१.३९.३०
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥
M N Dutt
“The sun is setting. I have no longer any fear from the poison today. Therefore, let this insect, becoming Takshaka, bite me, so that my sinful act be expitiated and the word of the ascetic may be true. And those councillors, impelled by Fate, approved of the speech of the king.
१.३९.३१
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥
M N Dutt
“The sun is setting. I have no longer any fear from the poison today. Therefore, let this insect, becoming Takshaka, bite me, so that my sinful act be expitiated and the word of the ascetic may be true. And those councillors, impelled by Fate, approved of the speech of the king.
१.३९.३२
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ।
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ।
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥
M N Dutt
The monarch smiled and placed the insect on his head. His hour (of death) having come, he lost his senses.
१.३९.३३
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः ।
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥
M N Dutt
And when the king was smiling, Takshaka, who has come out of the fruit that was offered to the king, coiled himself round the neck of the king. Uttering a tremendous roar, the king of the snakes immediately bit that protector of the world.
॥ इति १.३९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.