ऋषय ऊचुः ।
१.२.१
समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥
M N Dutt
The Rishis said: we wish to hear, O son of Suta, all about the place you called Samantapanchaka.
सूत उवाच ।
१.२.२
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः ।
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥
M N Dutt
Sauti said : Hear, O Brahmanas, the sacred words I say, You are fit, O best of men, to hear them.
१.२.३
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥
M N Dutt
At the end of Treta and in the beginning of Dwapara Yuga, the greatest of all that ever wielded arms, Parashurama, being impatient of wrongs, repeatedly destroyed all the Kshatriya races of the world.
१.२.४
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥
M N Dutt
That fiery Rama, after destroying the Kshatriyas by his own prowess, made five lakes of blood at Samantapanchaka.
१.२.५
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः ।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥
M N Dutt
We have heard, that being senseless with anger, he offered oblations to the manes of his ancestors, standing in the bloody water of these lakes.
१.२.६
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् ।
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥
M N Dutt
The ancestors then said, "It would be as you have wished. But be pacified.
१.२.७
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥
M N Dutt
The region, that lies near those five bloody lakes, has become famous from that day by the name of holy Samantapanchaka.
१.२.८
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥
M N Dutt
The wise men have said that every place should be known by a name significant of something which may have made it famous.
१.२.९
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् ।
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥
M N Dutt
At the end of Dwapara and in the beginning of Kali, a great battle was fought between the Kurus and the Pandavas, here at this holy Samantapanchaka.
१.२.१०
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते ।
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥
M N Dutt
In that holy place, where there was not the least raggedness, were assembled eighteen Akshauhinis of soldiers, all eager for battle.
१.२.१२
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः ।
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥
M N Dutt
I have described to you that beautiful and holy place. I have told you, O best of Brahmanas, all about this place, a place famous in the three worlds.
ऋषय ऊचुः ।
१.२.१३
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥
M N Dutt
The Rishis said : We wish to know, O Son of Suta, all about Akshauhini which you have mentioned to us.
१.२.१४
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् ।
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥
M N Dutt
Tell us the numbers of foot-soldiers, horses chariots and elephants, which make Akshauhini, for you know every thing.
सूत उवाच ।
१.२.१५
एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
M N Dutt
Sauti said: One chariot and one elephant, five foot soldiers and three horse-men, form a Patti.
१.२.१६
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
M N Dutt
Three Pattis make a Senamukha, three Senamukhas make a Gulma.
१.२.१७
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥
M N Dutt
Three Gulmas make a Gana, three Ganas a Vahini, three Vahinis taking together, form a Pritana.
१.२.१८
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी ।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥
M N Dutt
Three Pritanas make a Chamu, three Chamus an Anikini and ten times one Anikini is called by the learned as one Akshauhini.
१.२.१९
अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः ।
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥
M N Dutt
O best of Brahmanas, mathematicians have calculated that there are twenty one thousand eight hundred and seventy chariots in an Akshauhini. The number of elephants is also the same.
१.२.२०
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः ।
गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥
गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥
M N Dutt
O best of Brahmanas, mathematicians have calculated that there are twenty one thousand eight hundred and seventy chariots in an Akshauhini. The number of elephants is also the same.
१.२.२१
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव ।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥
M N Dutt
Know, the number of foot soldiers is one hundred nine-thousand three hundred and fifty; the number of horses is sixty-five thousand six-hundred and ten.
१.२.२२
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया ॥
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया ॥
M N Dutt
Know, the number of foot soldiers is one hundred nine-thousand three hundred and fifty; the number of horses is sixty-five thousand six-hundred and ten.
१.२.२३
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः ।
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥
M N Dutt
Those who are acquainted with the Principle of number call the above, explained fully by me, the numbers of an Akshauhini.
१.२.२४
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः ।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥
M N Dutt
O best of Brahmanas, the eighteen Akshauhinis of the Kurus and the Pandava soldiers were composed according to this count.
१.२.२५
समेतास्तत्र वै देशे तत्रैव निधनं गताः ।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥
M N Dutt
Time brought them all together in this place and making the Kauravas the cause, destroyed thein all.
१.२.२६
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥
M N Dutt
Bhishma, skillfull in arms, fought for ten days. Drona defended the Kuru army for five days.
१.२.२७
अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥
M N Dutt
The destroyer of enemy's soldiers, Karna, fought for two days; Shalya for half a day and for a half a day then lasted the club-fight of Duryodhana and Bhima. At the close of that day, Ashvathama, Kritavarma and Kripa.
१.२.२८
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः ।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥
M N Dutt
Destroyed the army of Yudhishthira when his soldiers were unsuspectingly sleeping. O Shaunaka, the best of narrations, the Bharata, which is narrated here at your sacrifice,
१.२.३०
विचित्रार्थपदाख्यानमनेकसमयान्वितम् ।
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥
M N Dutt
As men desirous of final release, accept Vairagya, so it is accepted by the wise. As Self is among things to be known, as life among things that are dear.
१.२.३१
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् ।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥
M N Dutt
So is it the best among all histories and also among all Shastras. There is not a story current in the world which does not depend on it.
१.२.३२
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा ।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥
M N Dutt
As the servant who wishes for promotion serves his master and as the words, constituting the various branches of knowledge and the Vedas, display vowels and consonants only, so this excellent history displays the highest knowledge.
१.२.३३
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥
M N Dutt
Hear the outline of the Parvas (chapters) of this Bharata history which is full of subtle meaning and logical connection and which is rich with the meanings of the Vedas.
१.२.३४
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः ।
पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥
पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥
M N Dutt
The first is called Anukramanika, the second Parva Sangraha; then come Pauloma, Paushya, Astika, Adianshavatarana,
१.२.३५
ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम् ।
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥
M N Dutt
After this the wonderful and thoughtful Sambhava, then Jatugrihadaha, then Hidimba,
१.२.३६
ततो बकवधः पर्व पर्व चैत्ररथं ततः ।
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥
M N Dutt
Then Baka-vadha and then Chaitraratha, then Panchali-svayamvara Parva,
१.२.३७
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।
विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥
विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥
M N Dutt
Then after defeating the rivals in rightful battle Vaivahika Parva, then Viduragamana and Rajya-lambha.
१.२.३८
अर्जुनस्य वने वासः सुभद्राहरणं ततः ।
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥
M N Dutt
Then Arjuna-vanavasa, Subhadraharana, Harana-harika,
१.२.३९
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ।
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥
M N Dutt
Then Khandava-daha and Mayadarshana, then come Sabha Parva and Mantra Parva,
१.२.४०
जरासंधवधः पर्व पर्व दिग्विजयस्तथा ।
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥
M N Dutt
Then Jarasandha-vadha and Digvijaya; after Digvijaya comes the Parva called Rajasuyika.
१.२.४१
ततश्चार्घाभिहरणं शिशुपालवधस्ततः ।
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥
M N Dutt
Then Arghabhiharana, Shishupalavadha, Dyuta, Anudyuta Parva; Then comes Aranyaka, Kirmira-vadha, Arjunabhigamana;
१.२.४२
तत आरण्यकं पर्व किर्मीरवध एव च ।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥
M N Dutt
And then Kairata, in which the battle between Arjuna and Shiva is described; Then Indralokabhigamana.
१.२.४३
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥
M N Dutt
Then the pathetic, pious and religious story of Nala-upakhyana; Then Tirtha-yatra of the wise king of the Kurus.
१.२.४४
जटासुरवधः पर्व यक्षयुद्धमतः परम् ।
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥
M N Dutt
Then Jatasura-vadha, then Yakshayuddha, then Nivatakavacha-yuddha and Ajagara;
१.२.४५
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् ।
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥
M N Dutt
Then Markandeya-samasya, then the Parva of the meeting of Draupadi and Satyabhama;
१.२.४६
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः ।
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥
M N Dutt
Then Ghoshayatra, Mriga-svapna, then Brihidraunikamakhyana and Aindradyumna;
॥ इति १.२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.