Loading data... On slow networks this could take a few minutes.
100%

न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥

सारांश AI अर्जुन का मन निकट उपलब्ध फलों की ओर नहीं भटका। पवित्र शीतल जल उनके लिए अमृत के समान सुखकारी हो गया।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ तस्यार्जुनस्य मानसं मनः संनिहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु । तथा शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात । न किंचिदाचकाङ्क्षेति भावः । प्राणधारणं तु तस्य तप एवेत्याह-तथाहि । सुकर्मणां सुकृतिनां शोभनं तपः सुतप एवामृतायतेऽमृतवदाचरति । किं तपस्तृप्तानां तर्पणान्तरैरिति भावः। लोहितादिडाज्भ्यः क्यष्' । वा क्यषः (अष्टाध्यायी १.३.९० ) इत्यात्मनेपदम् । लोहिता दिराकृतिगणः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.