श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥

अन्वयः AI कुरूणाम् अधिपस्य श्रियः पालनीं प्रजासु वृत्तिं वेदितुम् यम् अयुङ्क्त, सः वनेचरः वर्णिलिङ्गी (सन्) विदितः (सन्) द्वैतवने युधिष्ठिरं समाययौ।
English Summary AI The forest-dweller, whom Yudhishthira had appointed to learn about the administrative policies and conduct towards subjects of Duryodhana, the ruler of the Kurus, returned to Yudhishthira in the Dvaita forest, disguised as a celibate student, having learned everything.
सारांश AI कुरुराज दुर्योधन की राजलक्ष्मी और प्रजा-पालन की पद्धति जानने के लिए युधिष्ठिर द्वारा नियुक्त वनेचर समस्त वृत्तांत जानकर द्वैतवन में उनके पास लौट आया।
घण्टापथव्याख्या (मल्लिनाथः) श्रिय इति ॥ आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम्'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा।'इति । कुरूणां निवासाः कुरवो जनपदाः।तस्य निवासः (अष्टाध्यायी ४.२.६९ ) इत्यण्प्रत्ययः । जनपदे लुप् । तेषामधिपस्य दुर्योधनस्य संबन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । कर्तृकर्मणोः कृति (अष्टाध्यायी २.३.६५ ) इति कर्भणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्संपद् इति भावः । करणाधिकरणयोश्च (अष्टाध्यायी ३.३.११७ ) इति करणे ल्युट् । टिद्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप । प्रजासु जनेषु विषये । प्रजा स्यात्संततौ जनेइत्यमरः (अमरकोशः ३.३.३८ ) । वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्ण: प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम्-'स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्॥' एतदष्टविधमैथुनाभावः प्रशस्तिः ।वर्णाद्ब्रह्मचारिणि (अष्टाध्यायी ५.२.१३४ ) इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः। भेदीः किरातशबरपुलिन्द: म्लेच्छजातयःइत्यमरः (अमरकोशः २.१०.२० ) चरेष्टः (अष्टाध्यायी ३.२.१६ ) इति टप्रत्ययः ।तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः । परवृत्तान्तशानवानित्यर्थः । अर्शआदिभ्योऽच् (अष्टाध्यायी ५.२.१२७ ) इत्यच्प्रत्ययः ।अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते ।उभयत्रापि 'पीता गावः','भुक्ता ब्राह्मणाः','विभक्ता भ्रातरः' इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात् ।अतएव भाष्यकार:-'अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः' इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयट:—'गस्यार्थस्याप्रयोग एव लोपोऽभिमतः'। 'विभक्ता भ्रातरः' इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचरितम् । 'पीतोदका गावः' इत्यंभाप्युदकस्य पीतत्वं गोष्वारोप्यते' इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते। एतेन 'वनाय पीतप्रतिर्बद्धवत्साम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु' पवमादयो व्याख्याताः । अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कतरि क्तः। यथा आशितः कर्ता (अष्टाध्यायी ६.१.२०७ ) इत्यादौ । यथाहु:-'धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥' इति । द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात्तद्द्वीतम् । द्वीतमेव द्वैतम् । तच्च तद्वनं च तस्मिन् । . शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक्। गवियुधिभ्यां स्थिरः (अष्टाध्यायी ८.३.९५ ) इति षत्वम् । समाययौ संप्राप्तः। अत्र 'वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालंकारः। अस्मिन्सर्गे वंशस्थवृत्तम् । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौः' इति ॥
पदच्छेदः AI
श्रियःश्री (६.१) of the royal fortune
कुरूणाम्कुरु (६.३) of the Kurus
अधिपस्यअधिप (६.१) of the lord
पालनीम्पालनीय (√पाल्+अनीयर्, २.१) protecting
प्रजासुप्रजा (७.३) towards the subjects
वृत्तिम्वृत्ति (२.१) the conduct
यम्यद् (२.१) whom
अयुङ्क्तअयुङ्क्त (√युज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) appointed
वेदितुम्वेदितुम् (√विद्+तुमुन्) to know
सःतद् (१.१) he
वर्णिलिङ्गीवर्णिलिङ्गिन् (१.१) in the guise of a celibate student
विदितःविदित (√विद्+क्त, १.१) having known
समाययौसमाययौ (सम्+आ√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) returned
युधिष्ठिरम्युधिष्ठिर (२.१) to Yudhishthira
द्वैतवनेद्वैतवन (७.१) in the Dvaita forest
वनेचरःवनेचर (१.१) the forest-dweller
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
श्रि यः कु रू णा धि स्य पा नीं
प्र जा सु वृ त्तिं यु ङ्क्त वे दि तुम्
र्णि लि ङ्गी वि दि तः मा यौ
यु धि ष्ठि रं द्वै ने ने रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.