श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥
श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥
अन्वयः
AI
कुरूणाम् अधिपस्य श्रियः पालनीं प्रजासु वृत्तिं वेदितुम् यम् अयुङ्क्त, सः वनेचरः वर्णिलिङ्गी (सन्) विदितः (सन्) द्वैतवने युधिष्ठिरं समाययौ।
English Summary
AI
The forest-dweller, whom Yudhishthira had appointed to learn about the administrative policies and conduct towards subjects of Duryodhana, the ruler of the Kurus, returned to Yudhishthira in the Dvaita forest, disguised as a celibate student, having learned everything.
सारांश
AI
कुरुराज दुर्योधन की राजलक्ष्मी और प्रजा-पालन की पद्धति जानने के लिए युधिष्ठिर द्वारा नियुक्त वनेचर समस्त वृत्तांत जानकर द्वैतवन में उनके पास लौट आया।
घण्टापथव्याख्या (मल्लिनाथः)
श्रिय इति ॥ आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम्'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा।'इति । कुरूणां निवासाः कुरवो जनपदाः।
तस्य निवासः (अष्टाध्यायी ४.२.६९ ) इत्यण्प्रत्ययः । जनपदे लुप् । तेषामधिपस्य दुर्योधनस्य संबन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । कर्तृकर्मणोः कृति (अष्टाध्यायी २.३.६५ ) इति कर्भणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्संपद् इति भावः । करणाधिकरणयोश्च (अष्टाध्यायी ३.३.११७ ) इति करणे ल्युट् । टिद्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप । प्रजासु जनेषु विषये । प्रजा स्यात्संततौ जनेइत्यमरः (अमरकोशः ३.३.३८ ) । वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्ण: प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम्-'स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्॥' एतदष्टविधमैथुनाभावः प्रशस्तिः ।वर्णाद्ब्रह्मचारिणि (अष्टाध्यायी ५.२.१३४ ) इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः। भेदीः किरातशबरपुलिन्द: म्लेच्छजातयःइत्यमरः (अमरकोशः २.१०.२० ) । चरेष्टः (अष्टाध्यायी ३.२.१६ ) इति टप्रत्ययः ।तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः । परवृत्तान्तशानवानित्यर्थः । अर्शआदिभ्योऽच् (अष्टाध्यायी ५.२.१२७ ) इत्यच्प्रत्ययः ।अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते ।उभयत्रापि 'पीता गावः','भुक्ता ब्राह्मणाः','विभक्ता भ्रातरः' इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात् ।अतएव भाष्यकार:-'अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः' इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयट:—'गस्यार्थस्याप्रयोग एव लोपोऽभिमतः'। 'विभक्ता भ्रातरः' इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचरितम् । 'पीतोदका गावः' इत्यंभाप्युदकस्य पीतत्वं गोष्वारोप्यते' इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते। एतेन 'वनाय पीतप्रतिर्बद्धवत्साम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु' पवमादयो व्याख्याताः । अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कतरि क्तः। यथा आशितः कर्ता (अष्टाध्यायी ६.१.२०७ ) इत्यादौ । यथाहु:-'धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥' इति । द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात्तद्द्वीतम् । द्वीतमेव द्वैतम् । तच्च तद्वनं च तस्मिन् । . शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक्। गवियुधिभ्यां स्थिरः (अष्टाध्यायी ८.३.९५ ) इति षत्वम् । समाययौ संप्राप्तः। अत्र 'वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालंकारः। अस्मिन्सर्गे वंशस्थवृत्तम् । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौः' इति ॥
पदच्छेदः
AI
| श्रियः | श्री (६.१) | of the royal fortune |
| कुरूणाम् | कुरु (६.३) | of the Kurus |
| अधिपस्य | अधिप (६.१) | of the lord |
| पालनीम् | पालनीय (√पाल्+अनीयर्, २.१) | protecting |
| प्रजासु | प्रजा (७.३) | towards the subjects |
| वृत्तिम् | वृत्ति (२.१) | the conduct |
| यम् | यद् (२.१) | whom |
| अयुङ्क्त | अयुङ्क्त (√युज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) | appointed |
| वेदितुम् | वेदितुम् (√विद्+तुमुन्) | to know |
| सः | तद् (१.१) | he |
| वर्णिलिङ्गी | वर्णिलिङ्गिन् (१.१) | in the guise of a celibate student |
| विदितः | विदित (√विद्+क्त, १.१) | having known |
| समाययौ | समाययौ (सम्+आ√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) | returned |
| युधिष्ठिरम् | युधिष्ठिर (२.१) | to Yudhishthira |
| द्वैतवने | द्वैतवन (७.१) | in the Dvaita forest |
| वनेचरः | वनेचर (१.१) | the forest-dweller |
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| श्रि | यः | कु | रू | णा | म | धि | प | स्य | पा | ल | नीं |
| प्र | जा | सु | वृ | त्तिं | य | म | यु | ङ्क्त | वे | दि | तुम् |
| स | व | र्णि | लि | ङ्गी | वि | दि | तः | स | मा | य | यौ |
| यु | धि | ष्ठि | रं | द्वै | त | व | ने | व | ने | च | रः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.