पञ्चमस्तरङ्गः ।
१८.५.१
ततः स विक्रमादित्यो राजा तस्य सहागतम् ।
वणिक्पुत्रस्य सुहृदं तमेवं परिपृष्टवान् ॥
वणिक्पुत्रस्य सुहृदं तमेवं परिपृष्टवान् ॥
Summary
AI
Then, King Vikramāditya questioned the friend who had arrived along with the merchant's son.
१८.५.२
प्राप्ता मृतापि जीवन्ती मया भार्येति यत्त्वया ।
उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् ॥
उक्तं कथं तदिति नः कथ्यतां भद्र विस्तरात् ॥
Summary
AI
"O good man! Tell us in detail how you regained your wife alive even though she had died, as you mentioned."
१८.५.३
इत्युक्तस्तेन राज्ञा स वणिक्सूनोः सखाब्रवीत् ।
कौतुकं यदि तद्देव श्रूयतां कथयाम्यदः ॥
कौतुकं यदि तद्देव श्रूयतां कथयाम्यदः ॥
Summary
AI
Addressed thus by the king, the merchant’s friend replied, "O Lord! If you are curious, please listen as I narrate this."
१८.५.४
ब्रह्मस्थलाग्रहाराग्र्यनिवासी द्विजपुत्रकः ।
चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे ॥
चन्द्रस्वामीत्यहं भार्या सुरूपा चास्ति मे गृहे ॥
Summary
AI
I am Candra-svāmin, a Brahmin's son residing in the prominent Brahmasthala agrahāra; I have a beautiful wife at home.
१८.५.५
एकदा मयि कार्यार्थं ग्रामं पित्राज्ञया गते ।
तां मे कापलिको ऽद्राक्षीद्भार्यां भिक्षार्थमागतः ॥
तां मे कापलिको ऽद्राक्षीद्भार्यां भिक्षार्थमागतः ॥
Summary
AI
Once, while I had gone to a village on my father's orders for some work, a Kāpālika who came seeking alms saw my wife.
१८.५.६
तेन दृष्ट्वैव सा जातज्वरा सायं व्यपद्यत ।
ततो मद्बन्धुभिर्नीत्वा नक्तमारोपिता चिताम् ॥
ततो मद्बन्धुभिर्नीत्वा नक्तमारोपिता चिताम् ॥
Summary
AI
Just upon being seen by him, she developed a fever and died in the evening. Subsequently, my relatives took her and placed her on the funeral pyre at night.
१८.५.७
प्रज्वलन्त्यां चितायां च ग्रामात्तत्राहमागमम् ।
अश्रौषं च यथावृत्तं स्वजनात्क्रन्दतः पुरः ॥
अश्रौषं च यथावृत्तं स्वजनात्क्रन्दतः पुरः ॥
Summary
AI
While the pyre was burning, I arrived from the village and heard everything that had happened from my weeping kinsmen standing before me.
१८.५.८
गते मयि चितोपान्तमागात्कापालिकश्च सः ।
अंसस्थनृत्यत्खट्वाङ्गः स्फूर्जड्डमरुकारवः ॥
अंसस्थनृत्यत्खट्वाङ्गः स्फूर्जड्डमरुकारवः ॥
Summary
AI
As I approached the pyre, that Kāpālika arrived, carrying a dancing skull-staff (khaṭvāṅga) on his shoulder and making a loud sound with a rattling drum (ḍamaruka).
१८.५.९
भस्मक्षेपेण शमिते चिताग्नौ देव तेन सा ।
उदतिष्ठच्चितामध्यादक्षताङ्गी मदङ्गना ॥
उदतिष्ठच्चितामध्यादक्षताङ्गी मदङ्गना ॥
Summary
AI
O Lord! When he extinguished the funeral fire by throwing ashes on it, my wife rose up from the middle of the pyre with her limbs unscathed.
१८.५.१०
स चादाय कपाली तां सिद्ध्याकृष्टानुधाविताम् ।
प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ॥
प्राद्रवल्लघु तां चाहमन्वगां सधनुःशरः ॥
Summary
AI
Taking her—who followed him as if drawn by magic—the Kāpālika fled quickly, and I pursued them with my bow and arrow.
१८.५.११
स च गङ्गातटे प्राप्य गुहां भूमौ निधाय तत् ।
खट्वाङ्गमब्रवीद्धर्षादन्तःस्थे कन्यके उभे ॥
खट्वाङ्गमब्रवीद्धर्षादन्तःस्थे कन्यके उभे ॥
Summary
AI
Reaching a cave on the bank of the Gaṅgā, he placed the skull-staff on the ground and joyfully addressed two maidens who were inside.
१८.५.१२
युवां प्राप्ते अपि मया नोपभुक्ते यया विना ।
सैषाद्य हस्ते प्राप्ता मे प्रतिज्ञा सिद्धिमागता ॥
सैषाद्य हस्ते प्राप्ता मे प्रतिज्ञा सिद्धिमागता ॥
Summary
AI
"Without whom I did not enjoy both of you though you were captured, she has now fallen into my hands; my vow has attained fulfillment."
१८.५.१३
इति ताभ्यां स मद्भार्यां यावद्दर्शयति ब्रुवन् ।
तावत्तत्तस्य खट्वाङ्गं गङ्गायामहमक्षिपम् ॥
तावत्तत्तस्य खट्वाङ्गं गङ्गायामहमक्षिपम् ॥
Summary
AI
While he was speaking thus and showing my wife to those two, I threw his skull-staff into the Gaṅgā.
१८.५.१४
रे कापालिक भार्यां मे जिहीषुर्न भवस्ययम् ।
इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् ॥
इत्याक्षिपं च तमहं भ्रष्टखट्वाङ्गसिद्धिकम् ॥
Summary
AI
"O Kāpālika! You shall not be the one to carry off my wife!" Saying this, I attacked him, whose magical power was lost along with the skull-staff.
१८.५.१५
अपश्यन्सो ऽथ खट्वाङ्गं पलायनपरः शठः ।
धनुराकृष्य काण्डेन दिग्धेन निहतो मया ॥
धनुराकृष्य काण्डेन दिग्धेन निहतो मया ॥
Summary
AI
Then that rogue, unable to find his skull-staff, attempted to flee; I drew my bow and killed him with a poisoned arrow.
१८.५.१६
पापसिद्ध्यैकसंतोषविडम्बितशिवागमाः ।
पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि ॥
पाखण्डिनः पतन्त्येवं प्रागेव पतिता अपि ॥
Summary
AI
Thus do heretics fall, who mock the Śaiva scriptures and find joy only in sinful attainments, though they are already spiritually fallen.
१८.५.१७
अथादाय स्वभार्यां तामन्ये द्वे ते च कन्यके ।
गृहमागतवानस्मि दत्ताश्चर्यः स्वबन्धुषु ॥
गृहमागतवानस्मि दत्ताश्चर्यः स्वबन्धुषु ॥
Summary
AI
Then, taking my wife and those other two maidens, I returned home, causing great wonder among my kinsmen.
१८.५.१८
तत्र पृष्टे स्ववृत्तान्ते कन्ये ते वदतः स्म मे ।
वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः ॥
वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः ॥
Summary
AI
When questioned about their story there, the two maidens said to me, "We are the daughters of a king and a merchant in Vārāṇasī."
१८.५.१९
सिद्धियुक्त्या हृते चावामेतयैव कपालिना ।
त्वत्प्रसादाच्च मुक्ते स्वः पापादस्माददूषिते ॥
त्वत्प्रसादाच्च मुक्ते स्वः पापादस्माददूषिते ॥
Summary
AI
"We were abducted by this very Kāpālika using magical means; by your grace, we are now released from this sinner, remaining unpolluted."
१८.५.२०
इत्युक्तवत्यौ चान्येद्युर्नीत्वा वाराणसीं मया ।
अर्पिते ते स्वबन्धूनां तद्वृत्तान्तमुदीर्य तम् ॥
अर्पिते ते स्वबन्धूनां तद्वृत्तान्तमुदीर्य तम् ॥
Summary
AI
Since they spoke thus, I took them to Vārāṇasī the next day and, after narrating their story, restored them to their respective kinsmen.
१८.५.२१
आगच्छंश्च ततो ऽपश्यमिमं भार्यावियोगिनम् ।
वणिक्पुत्रं ततो ऽनेन मिलित्वाहमिहागतः ॥
वणिक्पुत्रं ततो ऽनेन मिलित्वाहमिहागतः ॥
Summary
AI
Returning from there, I saw this merchant's son who was separated from his wife; then, having met with him, I arrived here.
१८.५.२२
कापालिकगुहालब्धेनाङ्गरागेण रञ्जितात् ।
क्षालितादपि देहान्मे दृश्यतां वाति सौरभम् ॥
क्षालितादपि देहान्मे दृश्यतां वाति सौरभम् ॥
Summary
AI
Behold, even though my body has been washed, fragrance still wafts from it, for it was colored by the ointment obtained in the Kāpālika's cave.
१८.५.२३
इत्थं मृतोत्थिता प्राप्ता मया भार्येति वादिनम् ।
विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोन्नृपः ॥
विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोन्नृपः ॥
Summary
AI
After honoring the Brāhmaṇa who spoke thus, saying, "I have regained my wife who rose from the dead," together with the merchant's son, the King sent them away.
१८.५.२४
ततो गुणवतीचन्द्रवतीमदनसुन्दरीः ।
आनीयादाय च समं मिलित्वा च स्वसैनिकैः ॥
आनीयादाय च समं मिलित्वा च स्वसैनिकैः ॥
Summary
AI
Then, having brought and taken along Guṇavatī, Candravatī, and Madanasundarī, and having joined with his own soldiers...
१८.५.२५
आगात्स विक्रमादित्यभूभृदुज्जयिनीं पुरीम् ।
तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् ॥
तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् ॥
Summary
AI
King Vikramāditya reached the city of Ujjayinī, and there he married Guṇavatī and Candravatī.
१८.५.२६
संस्मरन्नथ तां विश्वकर्मदेवगृहे स्थिताम् ।
स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ॥
स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ॥
Summary
AI
Then, remembering that statue on the pillar situated in the temple of Viśvakarman, the King commanded his doorkeeper.
१८.५.२७
कलिङ्गसेनात्कन्यां तां प्राप्तुं दूतो विसृज्यताम् ।
यस्याः प्रतिकृतिर्दृष्टा सा मया स्तम्भपुत्रिका ॥
यस्याः प्रतिकृतिर्दृष्टा सा मया स्तम्भपुत्रिका ॥
Summary
AI
"Let a messenger be dispatched to obtain that girl from Kaliṅgasena, for that statue on the pillar I saw is her likeness."
१८.५.२८
इति राज्ञा समादिष्टः क्षत्तानीय तदग्रतः ।
प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् ॥
प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् ॥
Summary
AI
Thus commanded by the King, the doorkeeper brought before him a messenger named Suvigraha and sent him off with the message.
१८.५.२९
गत्वा कलिङ्गविषयं दृष्ट्वा तं च यथोचितम् ।
कलिङ्गसेनं राजानमेवं दूतो जगाद सः ॥
कलिङ्गसेनं राजानमेवं दूतो जगाद सः ॥
Summary
AI
That messenger, having gone to the country of Kaliṅga and having appropriately seen King Kaliṅgasena, spoke to him thus.
१८.५.३०
देवः श्रीविक्रमादित्यस्त्वामादिशति भूपते ।
वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति ॥
वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति ॥
Summary
AI
"O King, the divine Vikramāditya commands you: You know that whatever jewel exists on earth comes to us."
१८.५.३१
तवास्ति कन्यारत्नं च तदस्मभ्यं समर्पय ।
अस्मत्प्रसादाच्च निजं भुङ्क्ष्व राज्यमकण्टकम् ॥
अस्मत्प्रसादाच्च निजं भुङ्क्ष्व राज्यमकण्टकम् ॥
Summary
AI
"You have a jewel of a daughter; surrender her to us, and by our favor, enjoy your own kingdom without any obstacles."
१८.५.३२
एतच्छ्रुत्वा स कालिङ्गः क्रुद्धो राजाभ्यभाषत ।
को नाम विक्रमादित्यः स एवाज्ञां ददाति नः ॥
को नाम विक्रमादित्यः स एवाज्ञां ददाति नः ॥
Summary
AI
Hearing this, the King of Kaliṅga spoke angrily: "Who is this Vikramāditya that he should give orders to us?"
१८.५.३३
मार्गत्युपायनं कन्यां दर्पान्धो ऽधः पतिष्यति ।
एतत्कलिङ्गसेनात्स श्रुत्वा दूतः समभ्यधात् ॥
एतत्कलिङ्गसेनात्स श्रुत्वा दूतः समभ्यधात् ॥
Summary
AI
"Blinded by pride, he asks for my daughter as tribute; he shall fall low." Hearing this from Kaliṅgasena, the messenger replied.
१८.५.३४
भृत्यो ऽप्येवमनात्मज्ञः कथमोजायसे प्रभोः ।
किं मूढ तत्प्रतापाग्नौ शलभायितुमिच्छसि ॥
किं मूढ तत्प्रतापाग्नौ शलभायितुमिच्छसि ॥
Summary
AI
"Though a mere servant, why do you act so arrogantly and lack self-knowledge before my lord? O fool, do you wish to act like a moth in the fire of his majesty?"
१८.५.३५
इत्युक्त्वा तत आगत्य स दूतस्तन्न्यवेदयत् ।
वचः कलिङ्गसेनोक्तं विक्रमादित्यभूभृते ॥
वचः कलिङ्गसेनोक्तं विक्रमादित्यभूभृते ॥
Summary
AI
Saying this, the messenger returned from there and reported the words spoken by Kaliṅgasena to King Vikramāditya.
१८.५.३६
ततो विषमशीलो ऽसौ क्रुद्धः प्रायाद्बलैः सह ।
सभूतकेतुवेतालः कालिङ्गं प्रति तं प्रभुः ॥
सभूतकेतुवेतालः कालिङ्गं प्रति तं प्रभुः ॥
Summary
AI
Then that lord Viṣamaśīla, enraged, set out against the King of Kaliṅga with his forces, accompanied by Bhūtaketu and the Vetāla.
१८.५.३७
देह्याशु कन्यामिति तं कालिङ्गं ब्रुवतीष्विव ।
सेनारवप्रतिरवैर्दिक्षु तद्देशमाप च ॥
सेनारवप्रतिरवैर्दिक्षु तद्देशमाप च ॥
Summary
AI
He reached that country while the echoes of his army's roar seemed to say to the King of Kaliṅga in every direction, "Give up the daughter quickly!"
१८.५.३८
दृष्ट्वाथ युद्धसंनद्धं रुद्ध्वा तं च नृपं बलैः ।
राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ॥
राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ॥
Summary
AI
Then, seeing that King prepared for war and having besieged him with his forces, King Vikramāditya thought thus in his mind.
१८.५.३९
एतत्सुतां विना तावन्मम नास्त्येव निर्वृतिः ।
तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ॥
तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ॥
Summary
AI
"Until I have his daughter, I shall have no peace; so how can I kill my father-in-law? What strategy should I employ here?"
१८.५.४०
इत्यालोच्य सवेतालो राज तत्सिद्ध्यलक्षितः ।
सुप्तस्य प्राविशद्रात्रौ कलिङ्गेशस्य वासकम् ॥
सुप्तस्य प्राविशद्रात्रौ कलिङ्गेशस्य वासकम् ॥
Summary
AI
Having reflected thus, the King, accompanied by the Vetāla and rendered invisible by his supernatural power, entered the chamber of the sleeping King of Kaliṅga at night.
१८.५.४१
अरे विषमशीलेन विगृह्य स्वपिषीति तम् ।
प्रबोध्य तत्र वित्रस्तं वेतालः सो ऽब्रवीद्धसन् ॥
प्रबोध्य तत्र वित्रस्तं वेतालः सो ऽब्रवीद्धसन् ॥
Summary
AI
Laughing, the vetāla woke the terrified King of Kaliṅga and said, "O you! Do you sleep after provoking Viṣamaśīla?"
१८.५.४२
स चोत्थाय कलिङ्गेन्द्रो दृष्ट्वा दर्शितसाहसम् ।
परिज्ञाय च राजानं रौद्रवेतालसंगतम् ॥
परिज्ञाय च राजानं रौद्रवेतालसंगतम् ॥
Summary
AI
The Lord of Kaliṅga rose and, seeing King Viṣamaśīla accompanied by the fierce vetāla, recognized the king's displayed valor.
१८.५.४३
इदानीं वशगो ऽहं ते देवादिश करोमि किम् ।
इति विज्ञापयामास भीतस्तच्चरणानतः ॥
इति विज्ञापयामास भीतस्तच्चरणानतः ॥
Summary
AI
Terrified and bowing at his feet, he submitted, "Lord, I am now under your control; command me, what shall I do?"
१८.५.४४
मया चेत्प्रभुणा कार्यं तव तद्देहि मे सुताम् ।
कलिङ्गसेनामिति तं राजापि प्रत्यभाषत ॥
कलिङ्गसेनामिति तं राजापि प्रत्यभाषत ॥
Summary
AI
The King replied to him, "If you have any need for me as your sovereign, then give me your daughter, Kaliṅgasenā."
१८.५.४५
तथेति प्रतिपेदे च कलिङ्गाधिपतिः स तत् ।
राजापि वेतालयुतः स्वमागाच्छिबिरं कृती ॥
राजापि वेतालयुतः स्वमागाच्छिबिरं कृती ॥
Summary
AI
The Lord of Kaliṅga agreed, saying, "So be it." The successful King Viṣamaśīla, still accompanied by the vetāla, returned to his own camp.
१८.५.४६
अन्येद्युश्च कलिङ्गेन्द्रः स देवि त्वामदात्पिता ।
राज्ञे विषमशीलाय विधिवद्विभवोत्तरम् ॥
राज्ञे विषमशीलाय विधिवद्विभवोत्तरम् ॥
Summary
AI
"O Queen! On the following day, your father, the Lord of Kaliṅga, formally gave you to King Viṣamaśīla with great magnificence."
१८.५.४७
एवं गाढानुरागेण राज्ञा देहपणेन च ।
परिणीतासि विधिवद्देवि नारिजिगीषया ॥
परिणीतासि विधिवद्देवि नारिजिगीषया ॥
Summary
AI
"Thus, O Queen, you were formally wedded by the King through deep affection and by staking his own life, driven by the desire to win you."
१८.५.४८
इति कार्पटिकस्याहं देवसेनस्य वक्रतः ।
श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् ॥
श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् ॥
Summary
AI
"O friends, having heard this from the mouth of the attendant Devasena, I abandoned the resentment born of my perceived humiliation."
१८.५.४९
इत्थं विवाहिता स्तम्भपुत्रिकादर्शनादहम् ।
चित्रावलोकनाच्चैषा राज्ञा मलयवत्यपि ॥
चित्रावलोकनाच्चैषा राज्ञा मलयवत्यपि ॥
Summary
AI
"In this manner was I wedded, and this Malayavatī too was married by the King after he saw her statue on a pillar and her portrait."
॥ इति पञ्चमस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.