षष्ठस्तरङ्गः ।
१७.६.१
ततो मेरुध्वजो राजा तं तथा मलयध्वजम् ।
पश्यन्स्मरज्वराक्रान्तं देवीं स्वामेवमब्रवीत् ॥
पश्यन्स्मरज्वराक्रान्तं देवीं स्वामेवमब्रवीत् ॥
Summary
AI
Then King Merudhvaja, seeing Malayadhvaja afflicted by the fever of love, spoke thus to his queen.
१७.६.२
पातालदृष्टे त्रैलोक्यमालिनस्ते सुते न चेत् ।
भार्ये मत्पुत्रयोः स्यातां तन्मया किं कृतं भवेत् ॥
भार्ये मत्पुत्रयोः स्यातां तन्मया किं कृतं भवेत् ॥
Summary
AI
If those two daughters of Trailokyamālin, seen in the underworld, do not become the wives of my two sons, then what have I accomplished?
१७.६.३
तयोः कनिष्ठां च विना पुत्रो मे मलयध्वजः ।
लज्जानिगूढकामाग्निः पुटपाकेन पच्यते ॥
लज्जानिगूढकामाग्निः पुटपाकेन पच्यते ॥
Summary
AI
Without the younger of those two, my son Malayadhvaja, with his fire of passion hidden by shame, is being consumed like a medicinal preparation in a sealed vessel.
१७.६.४
तदर्थं च मयाद्यापि मोक्षस्त्रैलोक्यमालिनः ।
प्रतिश्रुतो ऽपि तत्पत्न्यै सत्वरं न विधीयते ॥
प्रतिश्रुतो ऽपि तत्पत्न्यै सत्वरं न विधीयते ॥
Summary
AI
Even though I promised his wife the release of Trailokyamālin, I have not yet quickly granted it for that very purpose.
१७.६.५
बन्धमुक्तो दुहितरावसुरत्वाभिमानतः ।
पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ॥
पुत्राभ्यां मानुषाभ्यां मे स दद्यान्नहि जातुचित् ॥
Summary
AI
Once released from captivity, he, due to his pride as an Asura, would certainly never give his daughters to my human sons.
१७.६.६
तदेतमर्थं सान्त्वेन ब्रूमस्तस्याधुना वरम् ।
इत्यालोच्य समं देव्या स प्रतीहारमादिशत् ॥
इत्यालोच्य समं देव्या स प्रतीहारमादिशत् ॥
Summary
AI
Therefore, it is better we speak to him of this matter with conciliation now. Having consulted the queen, he commanded the chamberlain.
१७.६.७
श्वेतशैलगुहां गत्वा प्रीत्या मद्वचनेन तम् ।
त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् ॥
त्रैलोक्यमालिनं ब्रूहि दैत्येन्द्रं संयतस्थितम् ॥
Summary
AI
Go to the cave of Śvetaśaila and affectionately speak to that King of the Daityas, Trailokyamālin, who remains bound, in my name.
१७.६.८
दैवयोगादिह क्लिष्टा यूयं दैत्यपते चिरम् ।
तदिदानीं मम वचः कृत्वा क्लेशं शमं नय ॥
तदिदानीं मम वचः कृत्वा क्लेशं शमं नय ॥
Summary
AI
O Lord of the Daityas, you have suffered here for a long time due to fate; now, by following my word, bring your suffering to an end.
१७.६.९
देहि दृष्ट्यानुरागिण्यौ मत्सुताभ्यां स्वकन्यके ।
इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ॥
इतो मुक्तः स्वराज्यं च विहितप्रत्ययः कुरु ॥
Summary
AI
Give your two daughters, who are already affectionate, to my sons; once released from here, rule your own kingdom with mutual trust.
१७.६.१०
इत्युक्त्वा प्रेषितो राज्ञा गत्वा तत्र गुहान्तरे ।
दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् ॥
दैत्येन्द्रायाब्रवीत्तस्मै क्षत्ता राजवचः स तत् ॥
Summary
AI
Thus commanded and sent by the king, the chamberlain went into the cave and conveyed the king's message to the Daitya king.
१७.६.११
मानुषाभ्यामहं कन्ये न दास्यामीति तेन च ।
प्रत्युक्तः स तथैवेत्य क्षत्ता राजानमभ्यधात् ॥
प्रत्युक्तः स तथैवेत्य क्षत्ता राजानमभ्यधात् ॥
Summary
AI
The chamberlain, replied to by him with 'I will not give my daughters to humans,' returned and informed the king exactly as told.
१७.६.१२
अथोपायं विचिन्वाने तस्मिन्मेरुध्वजे नृपे ।
दिवसेषु च यातेषु विज्ञाततदुदन्तया ॥
दिवसेषु च यातेषु विज्ञाततदुदन्तया ॥
Summary
AI
While King Merudhvaja was contemplating a strategy and as days passed, a messenger who had learned of those tidings arrived.
१७.६.१३
पातालात्प्रेषिता भूयः सा स्वयंप्रभया तया ।
आगादिन्दुमती तत्र दूती संदेशहारिणी ॥
आगादिन्दुमती तत्र दूती संदेशहारिणी ॥
Summary
AI
The messenger Indumatī, bearing a message, was sent again from the underworld by Svayamprabhā and arrived there.
१७.६.१४
सा चागत्य प्रतीहार्य मुखेनावेदितात्मका ।
प्रविवेश महादेव्या निकटं तत्कृतादरा ॥
प्रविवेश महादेव्या निकटं तत्कृतादरा ॥
Summary
AI
Having arrived and announced herself through the doorkeeper, she, received with respect, entered the presence of the chief queen.
१७.६.१५
प्रणिपत्याब्रवीत्तां च देवि देवि स्वयंप्रभा ।
विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ॥
विज्ञापयति किं वस्तद्विस्मृतं वचनं निजम् ॥
Summary
AI
Bowing to her, she said: O Queen, Queen Svayamprabhā asks whether you have forgotten your own word.
१७.६.१६
अब्धयः कुशलैलाश्च भवन्ति प्रलये ऽन्यथा ।
भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ॥
भवादृशां तु वचनं न तदाप्यन्यथा भवेत् ॥
Summary
AI
At the time of dissolution, oceans and the great mountains may change, but the word of people like you does not change even then.
१७.६.१७
यद्यप्युपगतं नास्मत्स्वामिना कन्यकार्पणम् ।
तत्स बद्धो दुहितरौ कथं दद्यादुपायनम् ॥
तत्स बद्धो दुहितरौ कथं दद्यादुपायनम् ॥
Summary
AI
Although our master has not yet agreed to give the daughters, how could he, while bound, offer his daughters as a gift?
१७.६.१८
औचित्येनोपकाराय युष्माभिश्चेत्स मुच्यते ।
तन्निश्चितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् ॥
तन्निश्चितं सुतादानात्कुर्याद्वः प्रत्युपक्रियाम् ॥
Summary
AI
If you release him out of propriety and kindness, he will surely repay your favor by giving his daughters.
१७.६.१९
सकन्यापि त्यजेत्प्राणानन्यथा सा स्वयंप्रभा ।
तेन न स्यात्सुताप्राप्तिर्न च वः सत्यपालनम् ॥
तेन न स्यात्सुताप्राप्तिर्न च वः सत्यपालनम् ॥
Summary
AI
Otherwise, Svayamprabhā, along with the daughters, will give up her life; then you will neither obtain the daughters nor fulfill your truth.
१७.६.२०
तत्कुरुष्व तथा देवि समयप्रत्ययादिना ।
यथ राजा विमुञ्चेत्तं प्रभुं नः सर्वसिद्धये ॥
यथ राजा विमुञ्चेत्तं प्रभुं नः सर्वसिद्धये ॥
Summary
AI
Therefore, O Queen, act in such a way through a pact or assurance of trust that the king releases our lord for the success of all goals.
१७.६.२१
स्वयंरभाविसृष्टं च गृहाणेदं विभूषणम् ।
दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः ॥
दिव्यैस्तैस्तैश्चितं रत्नैः खेचरत्वादिदायिभिः ॥
Summary
AI
Take this ornament sent by Svayaṃprabhā. It is adorned with various celestial gems that grant powers such as the ability to move through the air.
१७.६.२२
एवमुक्तवतीमिन्दुमतीं रज्ञी जगाद सा ।
दुःखितायाः कथं तस्या मयैतद्गृह्यतामिति ॥
दुःखितायाः कथं तस्या मयैतद्गृह्यतामिति ॥
Summary
AI
To Indumatī, who spoke thus, the queen replied: "How can I accept this gift from her while she is in such a state of distress?"
१७.६.२३
अगृहीते त्वयायस्मिन्नस्माकमधृतिर्भवेत् ।
गृहीते तु निजं दुःखं शान्तं मन्यामहे वयम् ॥
गृहीते तु निजं दुःखं शान्तं मन्यामहे वयम् ॥
Summary
AI
Indumatī replied, "If you do not accept this, we shall remain restless. But if you accept it, we will consider our own sorrow to be pacified."
१७.६.२४
इतीन्दुमत्या राज्ञी सा तया यत्नेन बोधिता ।
आश्वासहेतोस्तस्यास्तद्रत्नाभरणमग्रहीत् ॥
आश्वासहेतोस्तस्यास्तद्रत्नाभरणमग्रहीत् ॥
Summary
AI
Having been thus persuaded with effort by Indumatī, the queen accepted that jeweled ornament for the sake of comforting her.
१७.६.२५
इहैव तावत्तिष्ठार्ये राजा यावदुपैष्यति ।
इत्युक्त्वा तां च तत्रैव राज्ञी स्थापयति स्म सा ॥
इत्युक्त्वा तां च तत्रैव राज्ञी स्थापयति स्म सा ॥
Summary
AI
The queen said, "Noble lady, stay here until the King arrives," and she had Indumatī remain there with her.
१७.६.२६
तावत्स राजा तत्रागादुत्थायेन्दुमती च सा ।
राज्ञीनिवेदिता भूपं प्रणनाम तदादृता ॥
राज्ञीनिवेदिता भूपं प्रणनाम तदादृता ॥
Summary
AI
Meanwhile, the King arrived. Indumatī stood up and, being introduced by the queen, respectfully bowed to the monarch.
१७.६.२७
स्वयंप्रभवितीर्णं च चूडारत्नं समर्पयत् ।
विषरक्षोजरारोगहरं तस्मै नृपाय सा ॥
विषरक्षोजरारोगहरं तस्मै नृपाय सा ॥
Summary
AI
She then presented to the King the crest-jewel given by Svayaṃprabhā, which has the power to remove poison, demons, old age, and disease.
१७.६.२८
स्वसत्यमनुपाल्यैतद्ग्रहीष्यामीति वादिनम् ।
नृपमिन्दुमती सा तमेवं प्रौढा व्यजिज्ञपत् ॥
नृपमिन्दुमती सा तमेवं प्रौढा व्यजिज्ञपत् ॥
Summary
AI
When the King stated that he would only accept the jewel after fulfilling his promise, the wise Indumatī addressed him in this manner.
१७.६.२९
देवेन प्रतिपन्नं चेत्सत्यं पालितमेव तत् ।
अस्मिन्गृहीते त्वस्माकमाश्वासः सुतरां भवेत् ॥
अस्मिन्गृहीते त्वस्माकमाश्वासः सुतरां भवेत् ॥
Summary
AI
"If Your Majesty has accepted the proposal, the promise is already as good as fulfilled. By accepting this jewel, you will greatly comfort us."
१७.६.३०
एवं तयोक्ते साधूक्तमित्युक्त्वैवास्य भूपतेः ।
चूडारत्नं तदादाय राज्ञी मूर्ध्नि बबन्ध सा ॥
चूडारत्नं तदादाय राज्ञी मूर्ध्नि बबन्ध सा ॥
Summary
AI
When she spoke thus, the queen remarked, "Well said," and taking that crest-jewel, she fastened it upon the King's head.
१७.६.३१
ततः स्वयंप्रभावाक्यं यथा राज्ञ्यै निवेदितम् ।
तथा शशंस सा राज्ञे तस्मायिन्दुमती पुनः ॥
तथा शशंस सा राज्ञे तस्मायिन्दुमती पुनः ॥
Summary
AI
Then, Indumatī repeated to the King the message of Svayaṃprabhā exactly as she had previously reported it to the queen.
१७.६.३२
ततो राज्ञ्या तथैवोक्तो ऽवादीदिन्दुमतीं नृपः ।
इहैवाद्य प्रतीक्षस्व प्रातर्वक्ष्याम्यहं तव ॥
इहैवाद्य प्रतीक्षस्व प्रातर्वक्ष्याम्यहं तव ॥
Summary
AI
Urged by the queen in the same manner, the King said to Indumatī, "Wait here for today; I will give you my answer in the morning."
१७.६.३३
इत्युक्त्वा तां निशं नीत्वा प्रतराहूय मन्त्रिणः ।
स तामिन्दुमतीमेवं राजा मेरुध्वजो ऽब्रवीत् ॥
स तामिन्दुमतीमेवं राजा मेरुध्वजो ऽब्रवीत् ॥
Summary
AI
After saying this and spending the night, King Merudhvaja summoned his ministers in the morning and spoke to Indumatī as follows.
१७.६.३४
एभिर्मन्मन्त्रिभिः साकं राज्ञे त्रैलोक्यमालिने ।
आवेद्य गत्वा पातालादानयासुरयोषितः ॥
आवेद्य गत्वा पातालादानयासुरयोषितः ॥
Summary
AI
"Go to Pātāla with these ministers of mine. Inform King Trailokyamālin of my decision and bring back the demonesses."
१७.६.३५
स्वयंप्रभाद्याः सर्वांश्च मुख्यान्पातालवासिनः ।
हाटकेश्वरसंबन्धि मुद्रितं कोषवारि च ॥
हाटकेश्वरसंबन्धि मुद्रितं कोषवारि च ॥
Summary
AI
"Bring Svayaṃprabhā and the other chief inhabitants of Pātāla, along with the sealed sacred water from the treasury of Lord Hāṭakeśvara."
१७.६.३६
अमद्वशे वर्तितव्यं नित्यं त्रैलोक्यमालिना ।
सभृत्यबन्धुना भाव्यं नागैश्चासस्यघातिभिः ॥
सभृत्यबन्धुना भाव्यं नागैश्चासस्यघातिभिः ॥
Summary
AI
"Trailokyamālin must always remain under my control. He, his servants, and kinsmen must ensure that the Nāgas do not destroy the crops."
१७.६.३७
अत्रार्थे भर्तृचरणान्स्पृष्ट्वा मन्मन्त्रिसंनिधौ ।
स्वयंप्रभाद्याः शपथैरन्तरस्था भवन्तु नः ॥
स्वयंप्रभाद्याः शपथैरन्तरस्था भवन्तु नः ॥
Summary
AI
"In this matter, let Svayaṃprabhā and the others touch their master's feet in the presence of my ministers and become our witnesses through solemn oaths."
१७.६.३८
पातालवासिनः सन्तु तद्वत्प्रतिभुवो ऽखिलाः ।
अपत्यानि च सर्वे ऽइ स्थापयन्तु सराजकाः ॥
अपत्यानि च सर्वे ऽइ स्थापयन्तु सराजकाः ॥
Summary
AI
"Likewise, let all the inhabitants of Pātāla serve as guarantors, and let all of them, including their kings, provide their children as hostages."
१७.६.३९
सराजकाश्च लिखितं कुर्वन्तु निखिला अपि ।
हाटकेश्वरसर्वाङ्गवारिकोषं पिबन्तु च ॥
हाटकेश्वरसर्वाङ्गवारिकोषं पिबन्तु च ॥
Summary
AI
"Let all of them, along with their kings, execute a written treaty and drink the sacred water used to bathe the image of Lord Hāṭakeśvara."
१७.६.४०
ततो मोक्ष्याम्यहं कारागृहात्त्रैलोक्यमालिनम् ।
इत्युक्त्वेन्दुमतीं राजा सामात्यां विससर्ज सः ॥
इत्युक्त्वेन्दुमतीं राजा सामात्यां विससर्ज सः ॥
Summary
AI
"Only then will I release Trailokyamālin from prison." Having spoken thus, the King dismissed Indumatī along with his ministers.
१७.६.४१
सा गत्वा मन्त्रिसहितां प्रोच्य त्रैलोक्यमालिने ।
तच्छ्रद्धिता तथैवेन्दुमती पातालमाविशत् ॥
तच्छ्रद्धिता तथैवेन्दुमती पातालमाविशत् ॥
Summary
AI
Having approached and spoken to Trailokyamālin with her ministers, Indumatī, trusted by him, entered the netherworld (pātāla) in that manner.
१७.६.४२
स्वयंप्रभादीनानीय कोषवारि च सा ततः ।
राजोक्तं तदमात्याग्रे सर्वान्सर्वमकारयत् ॥
राजोक्तं तदमात्याग्रे सर्वान्सर्वमकारयत् ॥
Summary
AI
Then, after bringing Svayamprabhā and others along with the ordeal water, she made everyone perform all the actions as directed by the king in the presence of the ministers.
१७.६.४३
विहितप्रत्ययम्तं च मुमोच सपरिच्छदम् ।
त्रैलोक्यमालिनं मेरुध्वजः कारागृहान्नृपः ॥
त्रैलोक्यमालिनं मेरुध्वजः कारागृहान्नृपः ॥
Summary
AI
King Merudhvaja, having established trust, released Trailokyamālin from prison along with his attendants.
१७.६.४४
आनीय च गृहं सम्यक्संमान्य सपरिग्रहम् ।
स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज तम् ॥
स्वीकृतासुररत्नौघः स्वराज्ये विससर्ज तम् ॥
Summary
AI
Bringing him home and honoring him well along with his retinue, Merudhvaja, having accepted a heap of jewels from the asura, dismissed him back to his own kingdom.
१७.६.४५
सो ऽपि त्रैलोक्यमाली स्वं पुनरेत्य रसातलम् ।
प्राप्तराज्यो ननन्द स्वैः सहितो भृत्यबान्धवैः ॥
प्राप्तराज्यो ननन्द स्वैः सहितो भृत्यबान्धवैः ॥
Summary
AI
Trailokyamālin also, returning to his own netherworld (rasātala) and recovering his kingdom, rejoiced along with his own servants and kinsmen.
१७.६.४६
मेरुध्वजश्च पातालप्रभवैरर्थसंचयैः ।
पृथिवीं पूरयामास प्रावृड्घन इवाम्बुभिः ॥
पृथिवीं पूरयामास प्रावृड्घन इवाम्बुभिः ॥
Summary
AI
And Merudhvaja filled the earth with the accumulation of wealth originating from the netherworld, just as a monsoon cloud fills it with water.
१७.६.४७
अथ त्रैलोक्यमाली स संमन्त्र्य निजभार्यया ।
कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्ववेश्मनि ॥
कन्यारत्नद्वयं दित्सुस्तत्सुताभ्यां स्ववेश्मनि ॥
Summary
AI
Then, Trailokyamālin, having consulted with his own wife, became desirous of giving his two jewel-like daughters to the king's two sons in his own palace.
१७.६.४८
नृपं मेरुध्वजं नेतुं तं निमन्त्र्य सबान्धवम् ।
स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयमाययौ ॥
स्मृतोपकारो दैत्येन्द्रः पातालात्स्वयमाययौ ॥
Summary
AI
Remembering the favor, the lord of the Daityas came personally from the netherworld to invite and lead King Merudhvaja along with his kinsmen.
१७.६.४९
आगत्य तं च राजानं कृतातिथ्यमुवाच सः ।
युष्माभिर्नातिनिर्वृत्या तदा दृष्टं रसातलम् ॥
युष्माभिर्नातिनिर्वृत्या तदा दृष्टं रसातलम् ॥
Summary
AI
Having arrived and been received with hospitality, he said to the king: "On that previous occasion, you did not see the netherworld with great ease."
॥ इति षष्ठस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.