द्वितीयस्तरङ्गः ।
१६.२.१
अथासितगिरौ तस्मिन्नास्थानस्थं व्यजिज्ञपत् ।
नरवाहनदत्तं तं स्वसेनापतिरेकदा ॥
नरवाहनदत्तं तं स्वसेनापतिरेकदा ॥
Summary
AI
Then, once upon the Asita mountain, his commander-in-chief made a report to Naravāhanadatta while he was seated in the assembly.
१६.२.२
अद्याहं देव हर्म्यस्थो रक्षन्सैन्यानि दृष्टवान् ।
दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् ॥
दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् ॥
Summary
AI
"O Lord, today while guarding the armies from the palace balcony, I saw a woman being carried through the night sky by a celestial being."
१६.२.३
क्रन्दन्तीं हार्यपुत्रेति कान्तिसर्वस्वहारिणीम् ।
लब्ध्वैवानायितां बुद्ध्वां तत्कालबलिनेन्दुना ॥
लब्ध्वैवानायितां बुद्ध्वां तत्कालबलिनेन्दुना ॥
Summary
AI
She was crying out for her husband, and her beauty was so matchless that it seemed as if the moon, powerful at that hour, had seized and brought her there.
१६.२.४
आः पाप परदारांस्त्वमपहृत्य क्व यास्यसि ।
नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ॥
नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ॥
Summary
AI
"I shouted: 'O sinner! Where will you flee after abducting another's wife in the kingdom of our protector, Lord Naravāhanadatta?'"
१६.२.५
योजनानां सहस्रेषु षष्टौ वैद्याधरे पदे ।
तिर्यञ्चो ऽपि हि नाधर्मं कुर्वन्त्यन्येषु का कथा ॥
तिर्यञ्चो ऽपि हि नाधर्मं कुर्वन्त्यन्येषु का कथा ॥
Summary
AI
"'In the realm of the Vidyādharas, spanning sixty thousand yojanas, even animals do not commit unrighteous acts; what then to say of others?'"
१६.२.६
इत्युक्त्वैव प्रधाव्याशु सानुगेन मया स्वयम् ।
संयम्य स पुमान्व्योम्नः सनारीको ऽवतारितः ॥
संयम्य स पुमान्व्योम्नः सनारीको ऽवतारितः ॥
Summary
AI
Saying this, I rushed forward with my followers, restrained the man, and brought him down from the sky along with the woman.
१६.२.७
अवतार्य च पश्यामो यावत्स्यालः स ते प्रभो ।
भ्राता युष्मन्महादेव्या इत्यकाख्यो नभश्चरः ॥
भ्राता युष्मन्महादेव्या इत्यकाख्यो नभश्चरः ॥
Summary
AI
Upon bringing them down, O Lord, we realized he is your brother-in-law, the brother of your chief queen, a sky-dweller named Ityaka.
१६.२.८
देव्यां कलिङ्गसेनायां जातो मदनवेगतः ।
केयं किमेतां हरसीत्युक्तो ऽस्माभिश्च सो ऽभ्यधात् ॥
केयं किमेतां हरसीत्युक्तो ऽस्माभिश्च सो ऽभ्यधात् ॥
Summary
AI
He was born to Queen Kaliṅgasenā from Madanavega. When we asked who the woman was and why he was taking her, he replied:
१६.२.९
इयं मतङ्गदेवस्य विद्याधरपतेः सुता ।
उत्पन्नाशोकमञ्जर्यां नाम्ना सुरतमञ्जरी ॥
उत्पन्नाशोकमञ्जर्यां नाम्ना सुरतमञ्जरी ॥
Summary
AI
"'She is Suratamañjarī, the daughter of the Vidyādhara lord Mataṅgadeva, born to Aśokamañjarī."
१६.२.१०
सैषा प्रागेव वाचा मे मात्रा दत्ता सती किल ।
अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता ॥
अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता ॥
Summary
AI
"'Though she was previously promised to me by her mother, her father has now bestowed her upon another, a mortal man.'"
१६.२.११
अतो ऽद्यासौ निजा भार्या यदि प्राप्य हृता मया ।
तन्मे को दोष इत्युक्त्वा सो ऽत्र व्यरमदित्यकः ॥
तन्मे को दोष इत्युक्त्वा सो ऽत्र व्यरमदित्यकः ॥
Summary
AI
"'Therefore, if I have recovered my own wife, what fault is mine?' Having said this, Ityaka became silent."
१६.२.१२
केनार्ये परिणीता त्वं कथं प्राप्तासि चामुना ।
इति साथ मया पृष्टावोचत्सुरतमञ्जरी ॥
इति साथ मया पृष्टावोचत्सुरतमञ्जरी ॥
Summary
AI
When I asked her, 'Noble lady, who married you and how did he capture you?', Suratamañjarī replied:
१६.२.१३
अस्त्युज्जयिन्यां नृपतिः श्रीमान्पालकसंज्ञकः ।
कुमारस्तस्य पुत्रो ऽस्ति सुनामावन्तिवर्धनः ॥
कुमारस्तस्य पुत्रो ऽस्ति सुनामावन्तिवर्धनः ॥
Summary
AI
"'In Ujjayinī lives the glorious King Pālaka, whose son is the noble Prince Avantivardhana."
१६.२.१४
तेनेह परिणीताहं सुप्ता हर्म्यतले ऽद्य च ।
आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ॥
आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ॥
Summary
AI
"'I was married to him, but today while I slept on the palace roof, this sinner snatched me away from my husband's side while he was asleep.'"
१६.२.१५
एवमुक्तवती सा च संयतस्थः स चेत्यकः ।
मयेह स्थापितौ तौ द्वौ प्रमाणमधुना प्रभुः ॥
मयेह स्थापितौ तौ द्वौ प्रमाणमधुना प्रभुः ॥
Summary
AI
"After she spoke thus, I kept her and the restrained Ityaka here. Now, the Lord must decide the course of action."
१६.२.१६
एवं हरिशिखात्सेनापतेः श्रुत्वा ससंशयम् ।
गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः ॥
गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः ॥
Summary
AI
Hearing this from Commander Hariśikha, the emperor, filled with doubt, went to Gopālaka and related the entire matter.
१६.२.१७
गोपालको ऽपि सो ऽवादीद्वत्सैतद्विदितं न मे ।
सांप्रतं परिणीतैषा जाने पालकसूनुना ॥
सांप्रतं परिणीतैषा जाने पालकसूनुना ॥
Summary
AI
Gopālaka replied, "Dear boy, I was unaware of this, although I know she was recently married to the son of Pālaka."
१६.२.१८
आनीयतां कुमारस्तदुज्जयिन्याः स मन्त्रिणा ।
समं भरतरोहेण ज्ञास्यामो निश्चयं ततः ॥
समं भरतरोहेण ज्ञास्यामो निश्चयं ततः ॥
Summary
AI
"Therefore, let that prince be brought from Ujjayinī along with the minister Bharataroha; then we shall ascertain the truth."
१६.२.१९
तच्छ्रुवा मातुलवचश्चक्रवर्ती विसृज्य सः ।
विद्याधरं धूमशिखं मातुलस्य कनीयसः ॥
विद्याधरं धूमशिखं मातुलस्य कनीयसः ॥
Summary
AI
Hearing his uncle's words, the emperor dispatched the Vidyādhara Dhūmaśikha to the court of his younger maternal uncle, King Pālaka.
१६.२.२०
पालकस्यान्तिकं राज्ञस्तावानायितवानुभौ ।
उज्जयिन्याः कुमारं तं तत्सुतं तं च मन्त्रिणम् ॥
उज्जयिन्याः कुमारं तं तत्सुतं तं च मन्त्रिणम् ॥
Summary
AI
He then had both the prince of Ujjayinī, who was the king's son, and the minister brought from the king's presence.
१६.२.२१
प्राप्तौ कृतप्रणामौ च स तौ गोपालकान्वितः ।
स्नेहादराभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ॥
स्नेहादराभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ॥
Summary
AI
Accompanied by Gopālaka, King Pālaka honored the two who had arrived and offered salutations with affection and respect, then proceeded to ask them about the matter at hand.
१६.२.२२
तत्र स्थिते निशाहीनचन्द्राभे ऽवन्तिवर्धने ।
तथा सुरतमञ्जर्यां पितर्यस्याश्च सेत्यके ॥
तथा सुरतमञ्जर्यां पितर्यस्याश्च सेत्यके ॥
Summary
AI
While Avantivardhana, who shone like the moon in a clear night, remained there, along with Suratamañjarī and her father Setyaka.
१६.२.२३
सत्सु वायुपथाद्येषु मुनु तिष्ठति कश्यपे ।
सो ऽन्येषु च जगादैवं मन्त्री भरतरोहकः ॥
सो ऽन्येषु च जगादैवं मन्त्री भरतरोहकः ॥
Summary
AI
While Vāyupathādya and others were present, and the sage Kaśyapa was also there along with others, the minister Bharatarohaka spoke as follows.
१६.२.२४
आ मूलाच्छृणु देवैतदुज्जयिन्याः किलैकदा ।
एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः ॥
एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः ॥
Summary
AI
Bharatarohaka said, "O King, hear this from the very beginning. Once in Ujjayinī, King Pālaka was thus addressed by all the citizens who had gathered together."
१६.२.२५
अस्यामुदकदानाख्यो भवत्यद्योत्सवः पुरि ।
हेतुश्चात्र न चेत्सम्यक्छ्रुतस्तच्छ्रूयतां प्रभो ॥
हेतुश्चात्र न चेत्सम्यक्छ्रुतस्तच्छ्रूयतां प्रभो ॥
Summary
AI
The citizens said, "O Lord, today in this city, the festival named Udakadāna is taking place. If the reason for this has not been properly heard, please listen to it."
१६.२.२६
पूर्वं चण्डमहासेनः पिता ते खड्गमुत्तमम् ।
प्राप्तुं च भार्यां तपसा देवीं चण्डीमतोषयत् ॥
प्राप्तुं च भार्यां तपसा देवीं चण्डीमतोषयत् ॥
Summary
AI
"Formerly, your father Caṇḍamahāsena propitiated Goddess Caṇḍī through penance in order to obtain an excellent sword and a wife."
१६.२.२७
सा स्वं खड्गं ददौ तस्मै भार्यार्थे चैवमभ्यधात् ।
अङ्गारकाख्यमसुरं हत्वा तस्याचिरात्सुताम् ॥
अङ्गारकाख्यमसुरं हत्वा तस्याचिरात्सुताम् ॥
Summary
AI
"She gave him her own sword and spoke thus regarding a wife: 'After slaying the asura named Aṅgāraka, you will soon obtain his daughter...'"
१६.२.२८
पुत्राङ्गारवतीं नाम भव्यां भार्यामवाप्स्यसि ।
इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ॥
इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ॥
Summary
AI
"'...the beautiful Aṅgāravatī as your wife.' Being thus instructed by the Goddess, the King remained focused on that goal."
१६.२.२९
अत्रान्तरे चोज्जयिन्यां यो यो ऽभूनगराधिपः ।
स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत ॥
स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत ॥
Summary
AI
"Meanwhile, in Ujjayinī, whoever became the city-governor was devoured night after night by some mysterious being."
१६.२.३०
ततश्चण्डमहासेनस्तदन्वेष्टुं स्वयं निशि ।
स्वैरं भ्रमन्पुरि प्राप पुरुषं पारदारिकम् ॥
स्वैरं भ्रमन्पुरि प्राप पुरुषं पारदारिकम् ॥
Summary
AI
"Then Caṇḍamahāsena, wandering freely in the city at night to investigate the matter himself, came across an adulterous man."
१६.२.३१
तस्याच्छिनत्स खड्गेन शिरो रचितमण्डनम् ।
छिन्नकण्ठं च तं सद्यः को ऽप्येत्यादत्त राक्षसः ॥
छिन्नकण्ठं च तं सद्यः को ऽप्येत्यादत्त राक्षसः ॥
Summary
AI
"He cut off the man's decorated head with his sword. Immediately, a certain rākṣasa arrived and seized the headless corpse."
१६.२.३२
सो ऽयं पुराधिपानत्ति नूनमत्रेत्युदीर्य सः ।
आदाय केशेष्वारेभे हन्तुं तं राक्षसं नृपः ॥
आदाय केशेष्वारेभे हन्तुं तं राक्षसं नृपः ॥
Summary
AI
"Saying, 'Surely this is the one who eats the city-governors here,' the King seized the rākṣasa by his hair and began to strike him."
१६.२.३३
तावत्स राक्षसो ऽवादीन्मा राजन्मां वधीर्मृषा ।
अन्य एव स को ऽपीह यः खादति पुराधिपान् ॥
अन्य एव स को ऽपीह यः खादति पुराधिपान् ॥
Summary
AI
"Then the rākṣasa said, 'O King, do not kill me in vain! The one who devours the city-governors here is someone else entirely.'"
१६.२.३४
को ऽसौ ब्रूहीति राज्ञा तत्पृष्टं रक्षो ऽब्रवीत्पुनः ।
अस्तीहाङ्गारको नाम पातालनिलयो ऽसुरः ॥
अस्तीहाङ्गारको नाम पातालनिलयो ऽसुरः ॥
Summary
AI
"When the King asked, 'Who is he? Speak!', the rākṣasa replied again, 'There is an asura named Aṅgāraka whose abode is in the netherworld (Pātāla).'"
१६.२.३५
स ते पुराधिपानत्ति निशीथेषु परंतप ।
सर्वतो राजकन्याश्च हठेन हरति प्रभो ॥
सर्वतो राजकन्याश्च हठेन हरति प्रभो ॥
Summary
AI
"'O Scorcher of Foes, he devours your city-governors in the middle of the night. O Lord, he forcibly abducts princesses from everywhere.'"
१६.२.३६
करोत्यङ्गारवत्याश्च ताः सुतायाः परिच्छदम् ।
तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ॥
तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ॥
Summary
AI
"'He makes them the attendants of his daughter Aṅgāravatī. Seeing him wandering in the forest, kill him and be successful.'"
१६.२.३७
इत्युक्तवन्तं मुक्त्वा तं राक्षसं स स्वमन्दिरम् ।
राजा ययावेकदा च जगामाखेटकं ततः ॥
राजा ययावेकदा च जगामाखेटकं ततः ॥
Summary
AI
"Having released the rākṣasa who spoke thus, the King returned to his palace. Afterwards, he once went out for a hunt."
१६.२.३८
तत्रापश्यन्महाकायं कोपज्वलितलोचनम् ।
सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् ॥
सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् ॥
Summary
AI
"There he saw a huge boar with eyes blazing with anger, looking like a rising mountain of collyrium (Añjana) with its caves and peaks."
१६.२.३९
न वराहो भवेदीदृङ्मायी सो ऽङ्गारको नु किम् ।
इति ध्यायन्स राजा तं क्रोडं बाणैरताडयत् ॥
इति ध्यायन्स राजा तं क्रोडं बाणैरताडयत् ॥
Summary
AI
"Thinking, 'A boar cannot be like this; could it be the illusory Aṅgāraka?', the King struck the boar with arrows."
१६.२.४०
स तानगणयन्नेव बाणान्व्याधूय तद्रथम् ।
गत्वा वराहः सुमहद्विवेश विवरं भुवः ॥
गत्वा वराहः सुमहद्विवेश विवरं भुवः ॥
Summary
AI
"Ignoring those arrows and shaking the King's chariot, the boar went and entered a very large fissure in the earth."
१६.२.४१
राजापि वीरस्तत्रैव तस्य पश्चात्प्रविश्य सः ।
दिव्यं पुरं ददर्शात्र न ददर्श च सूकरम् ॥
दिव्यं पुरं ददर्शात्र न ददर्श च सूकरम् ॥
Summary
AI
The heroic King also entered right after him and saw a divine city there, but he did not see the boar.
१६.२.४२
वापीतटोपविष्टश्च तत्रापश्यत्स कन्यकाम् ।
कन्याशतपरीवारां रतिं रूपवतीमिव ॥
कन्याशतपरीवारां रतिं रूपवतीमिव ॥
Summary
AI
There, he saw a maiden seated on the bank of a pond, surrounded by a hundred girls, looking like the beautiful Rati herself.
१६.२.४३
सा कन्याभ्येत्य पृष्ट्वा च तत्रागमनकारणम् ।
पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् ॥
पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् ॥
Summary
AI
Approaching and asking the reason for his arrival, that maiden, gazing with tearful eyes and filled with love, spoke to him.
१६.२.४४
कष्टं कुत्र प्रविष्टो ऽसि वराहो यस्त्वयेक्षितः ।
स दैत्यो ऽङ्गारको नाम वज्रकायो महाबलः ॥
स दैत्यो ऽङ्गारको नाम वज्रकायो महाबलः ॥
Summary
AI
"Alas! Where have you entered? The boar you saw is a mighty Daitya named Aṅgāraka, who has a body as hard as a diamond."
१६.२.४५
संप्रति त्यक्तवाराहरूपश्चान्तः स्वपित्यसौ ।
प्रबुध्याहारकाले तु कुर्यादत्यहितं तव ॥
प्रबुध्याहारकाले तु कुर्यादत्यहितं तव ॥
Summary
AI
"Now, having abandoned his boar form, he is sleeping inside. On waking at his mealtime, he will cause you great harm."
१६.२.४६
अहं च सुभगैतस्य नाम्नाङ्गारवती सुता ।
तव चानिष्टमाशङ्क्य प्राणाः कण्ठागता मम ॥
तव चानिष्टमाशङ्क्य प्राणाः कण्ठागता मम ॥
Summary
AI
"O handsome one, I am his daughter named Aṅgāravatī. Fearing for your safety, my life-breath has reached my throat."
१६.२.४७
इत्युक्तः स तया राजा देव्या दत्तं वरं स्मरन् ।
कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् ॥
कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् ॥
Summary
AI
Thus addressed by her, the King, remembering the boon given by the Goddess and confident of his success, replied to her.
१६.२.४८
यदि मय्यस्ति ते स्नेहस्तदिदं कुरु मद्वचः ।
गत्वा रुदिहि पार्श्वे ऽस्य प्रबुद्धस्य सतः पितुः ॥
गत्वा रुदिहि पार्श्वे ऽस्य प्रबुद्धस्य सतः पितुः ॥
Summary
AI
"If you have affection for me, then do as I say: go and weep beside your father after he wakes up."
१६.२.४९
प्रमत्तं यदि कश्चित्त्वां हन्यात्तन्मम का गतिः ।
इति वाच्यश्च मुग्धाक्षि स पृच्छन्कारणं त्वया ॥
इति वाच्यश्च मुग्धाक्षि स पृच्छन्कारणं त्वया ॥
Summary
AI
"O lovely-eyed one, when he asks the reason, you must say: 'If someone kills you while you are heedless, what will become of me?'"
॥ इति द्वितीयस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.