तृतीयस्तरङ्गः ।
१४.३.१
मन्ये कल्याणमेव स्यात्पुरुषस्यासमं विधिः ।
मूहुः परीक्षते गाढं धीरत्वं सुखदुःखयोः ॥
मूहुः परीक्षते गाढं धीरत्वं सुखदुःखयोः ॥
Summary
AI
I believe that fortune awaits a man, for relentless destiny severely tests his fortitude repeatedly through both joy and sorrow.
१४.३.२
यदेककं विदेशेषु तैस्तैर्दारैः पदे पदे ।
नरवाहनदत्तं स योजयित्वा व्ययोजयत् ॥
नरवाहनदत्तं स योजयित्वा व्ययोजयत् ॥
Summary
AI
For destiny, having united Naravāhanadatta with various wives at every step in foreign lands, left him all alone.
१४.३.३
अथैतमृष्यमूकाद्रौ स्थितं तस्मिन्प्रभावती ।
नरवाहनदत्तं तं समागत्याब्रवीत्प्रिया ॥
नरवाहनदत्तं तं समागत्याब्रवीत्प्रिया ॥
Summary
AI
Then, his beloved Prabhāvatī approached Naravāhanadatta while he was staying on Mount Ṛṣyamūka and spoke to him.
१४.३.४
मदसंनिधिदोषेण लब्ध्वा नीतो भवांस्तदा ।
तां हि मानसवेगेन सभां पापं चिकीर्षुणा ॥
तां हि मानसवेगेन सभां पापं चिकीर्षुणा ॥
Summary
AI
Because of my absence, you were seized and taken to that assembly by the wicked Mānasavega, who intended to do evil.
१४.३.५
तद्बुद्ध्वागत्य तत्कालं देवविर्भावडम्बरम् ।
कृत्वा विद्याप्रभावेण मयेह प्रापितो भवान् ॥
कृत्वा विद्याप्रभावेण मयेह प्रापितो भवान् ॥
Summary
AI
Learning of this, I arrived immediately, assumed a divine appearance through the power of my magic, and brought you here.
१४.३.६
नास्मिन्विद्याधराणां हि गिरौ बलवतामपि ।
विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ॥
विद्याप्रपञ्चः क्रमते सिद्धक्षेत्रमिदं यतः ॥
Summary
AI
On this mountain, the magical powers of even the most powerful Vidyādharas do not work, for this is a sacred ground of the Siddhas.
१४.३.७
ममापि विद्याविभवो नात एवेह सिद्ध्यति ।
तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्त्स्यति ॥
तन्मे दुःखं कथं त्वं हि वन्याहारेण वर्त्स्यति ॥
Summary
AI
For this reason, my own magical powers do not work here either; it grieves me to wonder how you will survive on forest food.
१४.३.८
इत्युक्तवत्या तत्रासीत्कालाकाङ्क्षी तया सह ।
नरवाहनदत्तो ऽसौ ध्यायन्मदनमञ्चुकाम् ॥
नरवाहनदत्तो ऽसौ ध्यायन्मदनमञ्चुकाम् ॥
Summary
AI
When she had spoken thus, Naravāhanadatta remained there with her, waiting for the right time while constantly meditating on Madanamañcukā.
१४.३.९
सस्नौ तत्पर्वतासन्ने पम्पासरसि पावने ।
दिव्यास्वादानि बुभुजे मूलानि च फलानि च ॥
दिव्यास्वादानि बुभुजे मूलानि च फलानि च ॥
Summary
AI
He bathed in the purifying Pampā lake near that mountain and ate roots and fruits of divine flavor.
१४.३.१०
मृगमांसोपदंशं च पुण्यं वापीपयः पपौ ।
फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ॥
फलैस्तीरतरुभ्रष्टैः सरसं च सुगन्धि च ॥
Summary
AI
He drank the holy water of the tank, which was savory and fragrant with fruits fallen from trees on its banks, accompanied by snacks of venison.
१४.३.११
उवास वृक्षमूलेषु गुहागर्भगृहेषु च ।
रामस्यानुययौ वृत्तं तद्देशवनवासिनः ॥
रामस्यानुययौ वृत्तं तद्देशवनवासिनः ॥
Summary
AI
Dwelling under trees and in the inner chambers of caves, he followed the lifestyle of Rāma, who once lived in the forests of that region.
१४.३.१२
रामाश्रमांश्च दृष्ट्वात्र तस्मै तांस्तान्प्रभावती ।
सा रामायणवृत्तान्तं विनोदार्थमवर्णयत् ॥
सा रामायणवृत्तान्तं विनोदार्थमवर्णयत् ॥
Summary
AI
Seeing various hermitages of Rāma there, Prabhāvatī narrated the events of the Rāmāyaṇa to him for his amusement.
१४.३.१३
इह रामः ससौमित्रिः सीतयानुगतो वने ।
उवास तापसैः सार्धं तरुमूले कृतोटजः ॥
उवास तापसैः सार्धं तरुमूले कृतोटजः ॥
Summary
AI
Here in the forest, Rāma, accompanied by Lakṣmaṇa and followed by Sītā, lived with ascetics in a hut built at the foot of a tree.
१४.३.१४
अनसूयाङ्गरागेण सीतामोदितकानना ।
इहास्त मुनिपत्नीनां मध्ये वल्कलधारिणी ॥
इहास्त मुनिपत्नीनां मध्ये वल्कलधारिणी ॥
Summary
AI
Wearing bark garments and perfuming the forest with the ointment given by Anasūyā, Sītā stayed here among the wives of the sages.
१४.३.१५
अत्र दुन्दुभिदैत्यश्च गुहायां वालिना हतः ।
वलिसुग्रीवयोर्वैरे यदभूत्कारणं पुरा ॥
वलिसुग्रीवयोर्वैरे यदभूत्कारणं पुरा ॥
Summary
AI
Here, in a cave, the demon Dundubhi was slain by Vālin, which previously became the cause of the enmity between Vālin and Sugrīva.
१४.३.१६
सुग्रीवो हि भ्रमान्मत्वा हतं दैत्येन वालिनम् ।
गुहायाः पर्वतैर्द्वारं पिधाय सभयो ययौ ॥
गुहायाः पर्वतैर्द्वारं पिधाय सभयो ययौ ॥
Summary
AI
For Sugrīva, mistakenly believing Vālin to have been killed by the demon, blocked the entrance of the cave with rocks and fled in fear.
१४.३.१७
वाली च भित्त्वा तद्द्वारं निर्गत्य निरवासयत् ।
सुग्रीवं राज्यकामो ऽत्र मामबध्नादसाविति ॥
सुग्रीवं राज्यकामो ऽत्र मामबध्नादसाविति ॥
Summary
AI
Vālin, having broken through that entrance and emerged, banished Sugrīva, thinking, 'This man, desiring the kingdom, imprisoned me here.'
१४.३.१८
स सुग्रीवः पलाय्यास्मिन्नृष्यमूके कपीश्वरः ।
हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ॥
हनुमत्प्रमुखैः सार्धमत्र सानौ पदं व्यधात् ॥
Summary
AI
That king of monkeys, Sugrīva, having fled, took refuge here on the peak of Mount Ṛṣyamūka along with Hanumān and others.
१४.३.१९
अथैत्य हेमहरिणव्याजवञ्चितचेतसः ।
जहार रामदेवस्य रावणो जनकात्मजाम् ॥
जहार रामदेवस्य रावणो जनकात्मजाम् ॥
Summary
AI
Then, having arrived, Rāvaṇa abducted the daughter of Janaka from Lord Rāma, whose mind had been deceived by the ruse of the golden deer.
१४.३.२०
ततः सीताप्रवृत्त्यर्थी स वालिनिधनार्थिना ।
सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ॥
सुग्रीवेण समं सख्यमत्र चक्रे रघूद्वहः ॥
Summary
AI
Thereafter, seeking news of Sītā, that scion of the Raghu family formed an alliance here with Sugrīva, who desired the death of Vālin.
१४.३.२१
बिभेद च बलज्ञप्त्यै तालान्सप्तात्र पत्त्रिणा ।
एकं येष्वभिनत्कृच्छ्रात्सो ऽपि वाली महाबलः ॥
एकं येष्वभिनत्कृच्छ्रात्सो ऽपि वाली महाबलः ॥
Summary
AI
Here, Rāma pierced seven palm trees with a single arrow to demonstrate his strength, whereas even the mighty Vālī could only pierce one with great difficulty.
१४.३.२२
इतो गत्वा च किष्किन्धां हेलामुक्तैकसायकः ।
हत्वा तं वालिनं वीरः सुग्रीवे तच्छ्रियं न्यधात् ॥
हत्वा तं वालिनं वीरः सुग्रीवे तच्छ्रियं न्यधात् ॥
Summary
AI
After going to Kiṣkindhā from here, the hero Rāma, having killed Vālī with a single arrow shot effortlessly, bestowed the royal fortune of the kingdom upon Sugrīva.
१४.३.२३
अथ सीताप्रवृत्त्यर्थं हनुमत्प्रभृतिष्वितः ।
चतुर्दिक्कं प्रयातेषु सुग्रीवस्यानुयायिषु ॥
चतुर्दिक्कं प्रयातेषु सुग्रीवस्यानुयायिषु ॥
Summary
AI
Then, Sugrīva’s followers, led by Hanumān and others, set out from here in all four directions to search for news of Sītā.
१४.३.२४
इह रामेण वर्षासु सह मेघैर्विराविभिः ।
पतद्धाराश्रुतोयैश्च समदुःखैरिवासितम् ॥
पतद्धाराश्रुतोयैश्च समदुःखैरिवासितम् ॥
Summary
AI
Here, during the rainy season, Rāma stayed with the thundering clouds, which seemed to share his grief, shedding tears in the form of falling rain.
१४.३.२५
संपातिवचनोत्तीर्णवारिधेश्च हनूमतः ।
यत्नात्प्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ॥
यत्नात्प्रवृत्तौ ज्ञातायां गत्वा कपिबलैः सह ॥
Summary
AI
Once news of Sītā was obtained through the efforts of Hanumān, who had crossed the ocean upon hearing Sampāti's words, Rāma proceeded with the monkey army.
१४.३.२६
बद्ध्वाब्धिं सेतुना तेन हत्वा लङ्केश्वरं रिपुम् ।
आनिन्ये जानकी देवी विमानेनामुना पथा ॥
आनिन्ये जानकी देवी विमानेनामुना पथा ॥
Summary
AI
Having bridged the ocean and slain his enemy, the Lord of Laṅkā, Rāma brought Goddess Jānakī back along this very path by means of a celestial chariot.
१४.३.२७
एवं प्राप्स्यसि कल्याणमार्यपुत्र भवानपि ।
आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः ॥
आपत्सु धीरान्पुरुषान्स्वयमायान्ति संपदः ॥
Summary
AI
"O noble one, you too shall attain prosperity in this manner; for fortunes seek out courageous men even in times of adversity."
१४.३.२८
इत्यादि कथयन्त्या स प्रभावत्या तया सह ।
नरवाहनदत्तो ऽत्र क्रीडन्नासीदितस्ततः ॥
नरवाहनदत्तो ऽत्र क्रीडन्नासीदितस्ततः ॥
Summary
AI
While Prabhāvatī spoke these words, Naravāhanadatta remained there with her, sporting here and there.
१४.३.२९
एकदा तं च पम्पायां विद्याधर्यावुभे दिवः ।
धनवत्यजिनावत्याववतीर्योपजग्मतुः ॥
धनवत्यजिनावत्याववतीर्योपजग्मतुः ॥
Summary
AI
Once, two Vidyādhara maidens, Dhanavatī and Ajināvatī, descended from the heavens and approached him at Lake Pampā.
१४.३.३०
याभ्यां स गन्धर्वपुराच्छ्रावस्तीं प्रापितो ऽभवत् ।
भगीरथयशा यस्यां तेन सा पर्यणीयत ॥
भगीरथयशा यस्यां तेन सा पर्यणीयत ॥
Summary
AI
These were the two by whom he had been brought from the city of the Gandharvas to Śrāvastī, where he had married Bhagīrathayaśas.
१४.३.३१
प्रभावत्याजिनावत्यां मिलितायां स्वसख्यतः ।
नरवाहनदत्तं सा धनवत्येवमब्रवीत् ॥
नरवाहनदत्तं सा धनवत्येवमब्रवीत् ॥
Summary
AI
When Prabhāvatī met with Ajināvatī due to their friendship, Dhanavatī spoke thus to Naravāhanadatta.
१४.३.३२
एषाजिनावती प्राक्ते वाचा दत्ता सुता मया ।
तस्मात्परिणयस्वैनामासन्नो भ्युदयो हि ते ॥
तस्मात्परिणयस्वैनामासन्नो भ्युदयो हि ते ॥
Summary
AI
"This daughter of mine, Ajināvatī, was previously given to you by my word; therefore, marry her, for your prosperity is at hand."
१४.३.३३
एतद्धनवतीवाक्यं सखीस्नेहात्प्रभावती ।
नरवाहनदत्तश्च तथेत्यभिननन्दतुः ॥
नरवाहनदत्तश्च तथेत्यभिननन्दतुः ॥
Summary
AI
Prabhāvatī, out of affection for her friend, and Naravāhanadatta both welcomed Dhanavatī’s proposal, saying, "So be it."
१४.३.३४
ततो धनवती तस्मै ददौ तामजिनावतीम् ।
सा वत्सेश्वरपुत्राय यथार्हविधिना सुताम् ॥
सा वत्सेश्वरपुत्राय यथार्हविधिना सुताम् ॥
Summary
AI
Then Dhanavatī gave her daughter Ajināvatī to the son of the King of Vatsa in accordance with the proper rites.
१४.३.३५
स्वविद्याकल्पितोदारदिव्यसंभारसुन्दरम् ।
निर्वर्तयामास च तत्सा सुतोद्वाहमङ्गलम् ॥
निर्वर्तयामास च तत्सा सुतोद्वाहमङ्गलम् ॥
Summary
AI
She performed the auspicious wedding ceremony of her daughter, which was made beautiful by the abundant and divine materials created through her own magical powers.
१४.३.३६
नरवाहनदत्तं सा तमन्येद्युरथाब्रवीत् ।
न पुत्र यत्र तत्रेहं स्थातुं युक्तं चिरं तव ॥
न पुत्र यत्र तत्रेहं स्थातुं युक्तं चिरं तव ॥
Summary
AI
The next day, she said to Naravāhanadatta: "My son, it is not proper for you to remain here in this random place for long."
१४.३.३७
मायी विद्याधरजनो न च कार्यमिहास्ति ते ।
तद्गच्छ भार्यायुक्तस्त्वं कौशाम्बीमधुना निजाम् ॥
तद्गच्छ भार्यायुक्तस्त्वं कौशाम्बीमधुना निजाम् ॥
Summary
AI
"The Vidyādhara folk are deceptive, and you have no further business here; therefore, go now with your wives to your own city, Kauśāmbī."
१४.३.३८
अहं च तत्रैवैष्यामि चण्डसिंहेन सूनुना ।
सह विद्याधरेन्द्रै श्च स्वकैरभ्युदयाय ते ॥
सह विद्याधरेन्द्रै श्च स्वकैरभ्युदयाय ते ॥
Summary
AI
"I too shall come there for your prosperity, along with my son Caṇḍasiṃha and my own Vidyādhara lords."
१४.३.३९
एवमुक्त्वा धनवती सज्योत्स्नामिव साह्न्यपि ।
सितात्मवस्र्त्रप्रभया कुर्वाणा दिवमुद्ययौ ॥
सितात्मवस्र्त्रप्रभया कुर्वाणा दिवमुद्ययौ ॥
Summary
AI
Having spoken thus, Dhanavatī ascended to the heavens, making even the daytime appear as if illuminated by moonlight with the radiance of her white garments.
१४.३.४०
प्रभावत्यजिनावत्यौ प्रापयामासतुश्च तम् ।
नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ॥
नरवाहनदत्तं ते कौशाम्बीं नभसा पुरीम् ॥
Summary
AI
Then Prabhāvatī and Ajināvatī conducted Naravāhanadatta through the sky to the city of Kauśāmbī.
१४.३.४१
सो ऽत्र प्राप्तस्तदुद्यानं तस्यां व्योम्नो ऽवतारितः ।
नरवाहनदत्तो ऽभूद्दृष्टः परिजनैर्निजैः ॥
नरवाहनदत्तो ऽभूद्दृष्टः परिजनैर्निजैः ॥
Summary
AI
Having reached that garden, Naravāhanadatta was descended from the sky by Prabhāvatī and was seen by his own attendants.
१४.३.४२
आगतो राजपुत्रो ऽयं दिष्ट्या वर्धामहे वयम् ।
इति तत्रोदभून्नादो जनस्याथ समन्ततः ॥
इति तत्रोदभून्नादो जनस्याथ समन्ततः ॥
Summary
AI
"The prince has arrived! We are fortunate!" Such a cry then arose from the people on all sides.
१४.३.४३
ततो ऽकाण्डसुधासारसंसिक्त इव सोत्सवः ।
वत्सराजो ऽथ तद्बुद्ध्वा युक्तो वासवदत्तया ॥
वत्सराजो ऽथ तद्बुद्ध्वा युक्तो वासवदत्तया ॥
Summary
AI
Then King Vatsarāja, having learned the news, felt as if sprinkled by an unexpected shower of nectar; full of joy and accompanied by Vāsavadattā, he approached.
१४.३.४४
पद्मावत्या वधूभिश्च द्रुतं रत्नप्रभादिभिः ।
यौगन्धरायणाद्याश्च ये वत्सेश्वरमन्त्रिणः ॥
यौगन्धरायणाद्याश्च ये वत्सेश्वरमन्त्रिणः ॥
Summary
AI
Accompanied by Padmāvatī and his daughters-in-law led by Ratnaprabhā, he approached quickly. The ministers of the King of Vatsa, headed by Yaugandharāyaṇa, also came.
१४.३.४५
कलिङ्गसेना स्वे चैव सचिवा गोमुखादयः ।
यथार्हं तमुपाजग्मुर्ग्रीष्मे ह्रदमिवाध्वगाः ॥
यथार्हं तमुपाजग्मुर्ग्रीष्मे ह्रदमिवाध्वगाः ॥
Summary
AI
Kaliṅgasenā and the king's own ministers, Gomukha and others, approached him appropriately, just as travelers in summer approach a lake.
१४.३.४६
ददृशुस्ते च मध्ये तं सुदशार्हकुलं द्वयोः ।
पत्न्योः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः ॥
पत्न्योः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः ॥
Summary
AI
They saw him seated between his two wives, looking like Kṛṣṇa of the noble Daśārha clan seated between Rukmiṇī and Satyabhāmā.
१४.३.४७
अङ्गेष्वेव न वर्तेरन्फुटत्स्विति भयादिव ।
तेषां तद्दर्शने हर्षबाष्पैः पिदधिरे दृशः ॥
तेषां तद्दर्शने हर्षबाष्पैः पिदधिरे दृशः ॥
Summary
AI
As if fearing that their limbs might burst if they did not contain their joy, their eyes were covered with tears of happiness upon seeing him.
१४.३.४८
वत्सराजश्च देव्यौ च चिरादालिङ्ग्य तं सुतम् ।
न शेकुर्मोक्तुमङ्गेषु प्रोतं कण्टकितेष्विव ॥
न शेकुर्मोक्तुमङ्गेषु प्रोतं कण्टकितेष्विव ॥
Summary
AI
King Vatsarāja and the two queens, having embraced their son after a long time, were unable to let him go, as if he were fixed to their horripilated limbs.
१४.३.४९
ततः प्रहततूर्ये ऽत्र वर्तमाने महोत्सवे ।
नरवाहनदत्तस्य भार्या वेगवतः सुता ॥
नरवाहनदत्तस्य भार्या वेगवतः सुता ॥
Summary
AI
Then, while a great festival was taking place with the sounding of musical instruments, the daughter of Vegavat, who was the wife of Naravāhanadatta, arrived.
॥ इति तृतीयस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.