पञ्चविंशस्तरङ्गः ।
१२.२५.१
ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते ।
ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ॥
ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ॥
Summary
AI
Then, in that cemetery crowded with flesh-eating creatures and funeral pyres that resembled demons with flickering tongues of flame...
१२.२५.२
गत्वैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् ।
स त्रिविक्रमसेनस्तमाससाद पुनर्नृपः ॥
स त्रिविक्रमसेनस्तमाससाद पुनर्नृपः ॥
Summary
AI
During that night, the unshakable King Trivikramasena went back to that śiṃśapā tree and reached it once again.
१२.२५.३
तत्रापश्यच्च वेतालविकृतान्सदृशाकृतीन् ।
उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥
उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥
Summary
AI
There, he fearlessly saw many dead bodies hanging, all transformed by the Vetāla and looking exactly alike.
१२.२५.४
अहो किमेतत्किं वान्यन्मायी कालं क्षिपत्ययम् ।
वेतालो मे न वेद्म्येषां ग्राह्यं येनेह भूयषाम् ॥
वेतालो मे न वेद्म्येषां ग्राह्यं येनेह भूयषाम् ॥
Summary
AI
"Oh, what is this? Or what else is it? Is this deceptive Vetāla wasting my time? Among these many bodies, I do not know which one is to be taken," thought the King.
१२.२५.५
असिद्धार्थस्य चेद्रात्रिरियं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥
Summary
AI
If this night passes without my purpose being achieved, I will enter the fire; I will not endure being an object of ridicule.
१२.२५.६
इति चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ॥
Summary
AI
Discerning the firm resolve of the King who was thinking thus, the Vetāla, pleased by his courage, withdrew that illusion.
१२.२५.७
ततो दृष्ट्वैकमेवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर्नृपः ॥
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर्नृपः ॥
Summary
AI
Then, seeing only one Vetāla in the human corpse, the King brought it down, placed it on his shoulder, and set out again.
१२.२५.८
प्रक्रामन्तं च तं भूयः स वेतालो ऽभ्यभाषत ।
राजन्नोद्विजसे चित्रं तदिमां मे कथां सृणु ॥
राजन्नोद्विजसे चित्रं तदिमां मे कथां सृणु ॥
Summary
AI
As the King was walking again, the Vetāla addressed him: "O King, it is wonderful that you are not distressed. Listen, then, to this story of mine."
१२.२५.९
अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥
असामान्यगुणोत्कर्षलुब्धेनेव स्वयंवृता ॥
Summary
AI
There is a city, chosen by Tripurāri (Lord Śiva) as if he were attracted by its extraordinary excellence of virtues, even though he was won over by the hardships of Gaurī's penance.
१२.२५.१०
भोगवत्यमरावत्योस्तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ॥
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ॥
Summary
AI
The city of Ujjayinī stands as a third to Bhogavatī and Amarāvatī, enriched with various enjoyments attainable through noble merits.
१२.२५.११
यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासामेव भ्रुवोर्भङ्गो लोचनेषु च चापलम् ॥
तासामेव भ्रुवोर्भङ्गो लोचनेषु च चापलम् ॥
Summary
AI
In that city, rigidity and hardness are found only in the breasts of beautiful women, bending only in their eyebrows, and fickleness only in their eyes.
१२.२५.१२
तमो निशासु वक्रत्वं यस्यां कविवरोक्तिषु ।
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ॥
Summary
AI
In that city, darkness exists only in the nights, crookedness only in the speech of great poets, intoxication only in elephants, and dullness only in pearls, sandalwood, and the moon.
१२.२५.१३
तस्यां चन्द्रप्रभाख्यस्य राज्ञो ऽमात्यो बहुश्रुतः ।
देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ॥
देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ॥
Summary
AI
In that city, there lived a learned Brāhmaṇa named Devasvāmī, a wealthy performer of many sacrifices, who was the minister of King Candraprabha.
१२.२५.१४
तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत ।
सो ऽधीतविद्यो ऽपि युवा द्यूतैकव्यसनो ऽभवत् ॥
सो ऽधीतविद्यो ऽपि युवा द्यूतैकव्यसनो ऽभवत् ॥
Summary
AI
In time, a son named Candrasvāmī was born to him; although the youth was well-educated, he became solely addicted to the vice of gambling.
१२.२५.१५
एकदा च द्विजसुतश्चन्द्रस्वामी स कांचन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ॥
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ॥
Summary
AI
One day, that son of a Brāhmaṇa, Candrasvāmī, went to a certain large gambling assembly to play.
१२.२५.१६
आश्लिष्यामः कमत्रेति विपद्भिरिव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैर्नेत्रैरक्षैर्निरन्तराम् ॥
विक्षिप्तैः कृष्णशाराभैर्नेत्रैरक्षैर्निरन्तराम् ॥
Summary
AI
That place was crowded with dice that resembled black-spotted eyes cast by personified misfortunes to see whom they might embrace.
१२.२५.१७
कः सो ऽस्ति न श्रियं यस्य हराम्यप्यलकापतेः ।
इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः ॥
इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः ॥
Summary
AI
The house resounded with the loud quarrels of gamblers as if shouting, "Is there anyone, even the Lord of Alakā, whose wealth I cannot take away?"
१२.२५.१८
तां प्रविश्य क्रमाद्दीव्यन्नक्षैः स कितवैः सह ।
वस्त्रादि हारयित्वापि धनमन्यदहारयत् ॥
वस्त्रादि हारयित्वापि धनमन्यदहारयत् ॥
Summary
AI
Entering there and playing dice with gamblers, he gradually lost his clothes and then lost all his other wealth.
१२.२५.१९
मृग्यमाणं च यन्नादात्स तद्धनमसंभवि ।
तदवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥
तदवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥
Summary
AI
When he could not pay the money being demanded from him, he was held by the gambling-master and beaten all over with clubs.
१२.२५.२०
लगुडाहतसर्वाङ्गः पाषाणमिव निश्चलम् ।
कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतो ऽथ सः ॥
कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतो ऽथ सः ॥
Summary
AI
Then, with his whole body struck by clubs, that son of a Brāhmaṇa remained motionless like a stone, pretending to be dead.
१२.२५.२१
तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते ।
क्रुद्धः स सभ्यष्ठिण्ठायां कितवान्स्वानभाषत ॥
क्रुद्धः स सभ्यष्ठिण्ठायां कितवान्स्वानभाषत ॥
Summary
AI
While Candrasvāmin remained there for two or three days, the angry master of the gambling-den spoke to his fellow gamblers.
१२.२५.२२
श्रितानेनाश्मता तावत्तदेतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्यहं तु वः ॥
नीत्वान्धकूपे निःसत्त्वं धनं दास्याम्यहं तु वः ॥
Summary
AI
Since he has become as stiff as a stone, take this lifeless man and throw him into a blind well; I will then pay you.
१२.२५.२३
इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥
अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ॥
Summary
AI
Instructed thus, the gamblers, seeking a well, lifted Candrasvāmin and carried him far away into the forest.
१२.२५.२४
तत्रैको वृद्धकितवस्तानन्यानेवमभ्यधात् ।
मृतो ऽयं प्रायशस्तत्किं कूपे क्षिप्तेन नो ऽमुना ॥
मृतो ऽयं प्रायशस्तत्किं कूपे क्षिप्तेन नो ऽमुना ॥
Summary
AI
There, an elderly gambler said to the others, 'He is almost dead; what is the use of throwing him into a well?'
१२.२५.२५
तदिहैवैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ॥
Summary
AI
They agreed to leave him there and lie that he had been thrown into a well; everyone accepted his proposal.
१२.२५.२६
ततस्त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यमेकं शिवालयम् ॥
चन्द्रस्वामी विवेशात्र शून्यमेकं शिवालयम् ॥
Summary
AI
After the gamblers abandoned him and departed, Candrasvāmin stood up and entered a solitary, deserted temple of Śiva.
१२.२५.२७
तत्र किंचित्समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ॥
विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ॥
Summary
AI
Recovering slightly, he sorrowfully lamented, 'Alas! Trusting in their deceit, I have been robbed by these gamblers.'
१२.२५.२८
तदीदृशः क्व गच्छामि नाग्नोपहतपांशुलः ।
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ॥
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ॥
Summary
AI
'Where can I go in this state, naked and covered in dust? What would my father, relatives, or friends say if they saw me?'
१२.२५.२९
तत्संप्रति स्थितो ऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ॥
Summary
AI
'I shall stay here for now; at night, I will go out and see how I can strive for food to satisfy my hunger.'
१२.२५.३०
इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपो ऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ॥
मन्दीकृतातपो ऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ॥
Summary
AI
As the exhausted and naked Candrasvāmin pondered thus, the sun, its heat diminished, left the sky and set behind the western mountain.
१२.२५.३१
तावच्च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरो हर इवापरः ॥
महाव्रती जटाशूलधरो हर इवापरः ॥
Summary
AI
Just then, an ascetic with limbs smeared in ashes, bearing matted locks and a trident, arrived like another Śiva.
१२.२५.३२
स चन्द्रस्वामिनं दृष्ट्वा को ऽसीति परिपृच्छ्य च ।
स्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसो ऽब्रवीत् ॥
स्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसो ऽब्रवीत् ॥
Summary
AI
The ascetic saw Candrasvāmin, asked who he was, and upon hearing his story, spoke to the bowed man.
१२.२५.३३
त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तो ऽचिन्तितो ऽतिथिः ।
तदुत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥
तदुत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ॥
Summary
AI
The ascetic said, 'You have come to my hermitage as an unexpected, hungry guest; rise, bathe, and take a portion of my alms.'
१२.२५.३४
इत्युक्तो व्रतिना सो ऽथ चन्द्रस्वामी जगाद तम् ।
विप्रो ऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥
विप्रो ऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ॥
Summary
AI
Candrasvāmin replied to the ascetic, 'O Blessed One, I am a Brāhmaṇa; how can I eat a portion of your alms?'
१२.२५.३५
तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ॥
Summary
AI
Hearing this, the hospitable and perfected ascetic entered his hut and meditated on a magic power that fulfills desires.
१२.२५.३६
संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ॥
अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ॥
Summary
AI
He commanded the power that appeared and asked for his bidding to provide hospitality to his guest.
१२.२५.३७
तथेत्युक्ते तया तत्र सोद्यानं साङ्गनाजनम् ।
पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥
पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ॥
Summary
AI
When she agreed, Candrasvāmin beheld a golden city manifest there, filled with gardens and beautiful women.
१२.२५.३८
विस्मितं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् ।
ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥
ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥
Summary
AI
Courtesans from the city approached the amazed man and said, 'Good sir, rise, come, bathe, eat, and rest from your weariness.'
१२.२५.३९
इत्युक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः स दत्तसद्वस्त्रो निन्ये ऽन्यद्वासकोत्तमम् ॥
ताभिः स दत्तसद्वस्त्रो निन्ये ऽन्यद्वासकोत्तमम् ॥
Summary
AI
After speaking, they led him inside, bathed and anointed him, gave him fine garments, and escorted him to a splendid chamber.
१२.२५.४०
तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥
सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ॥
Summary
AI
There, the young man saw a preeminent maiden of perfect beauty, as if crafted by the Creator in a moment of curiosity.
१२.२५.४१
तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।
बुभुजे दिव्यमाहारं तयैवात्र समं ततः ॥
बुभुजे दिव्यमाहारं तयैवात्र समं ततः ॥
Summary
AI
Elevated by the longing celestial woman and seated beside her on her throne, Candraśvāmin partook of a divine feast in her company.
१२.२५.४२
भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ॥
Summary
AI
After enjoying ripe fruits and flavorful betel to his heart's content, he spent the night experiencing the bliss of union with her on a couch.
१२.२५.४३
प्रातः प्रबुद्धश्चापश्यत्तदेवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ॥
नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ॥
Summary
AI
Upon waking in the morning, he saw only the familiar temple of Śiva; the celestial maiden, the magnificent city, and the attendants had all vanished.
१२.२५.४४
ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥
पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ॥
Summary
AI
Distressed by the loss, he addressed the smiling ascetic who emerged from his hut in the morning and inquired about his night's rest.
१२.२५.४५
तत्प्रसादादहं रात्रावुषितो भगवन्सुखम् ।
किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥
किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ॥
Summary
AI
Candraśvāmin replied, 'O Holy One, by your grace, I spent the night in bliss. However, my life will depart without that divine woman.'
१२.२५.४६
तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिको ऽब्रवीत् ।
इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ॥
इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ॥
Summary
AI
Hearing this, the compassionate ascetic laughed and assured him, 'Stay right here; you shall experience the same delight again tonight.'
१२.२५.४७
इत्युक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्यत्र सो ऽभुङ्क्त भोगांस्तांस्तत्प्रसादतः ॥
चन्द्रस्वाम्यत्र सो ऽभुङ्क्त भोगांस्तांस्तत्प्रसादतः ॥
Summary
AI
Thus, through the ascetic’s grace and power, Candraśvāmin continued to enjoy those celestial pleasures every single night at that temple.
१२.२५.४८
बुद्ध्वा च तं शनैर्विद्याप्रभावं विधिचोदितः ।
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ॥
Summary
AI
Gradually realizing the immense power of the ascetic’s science and impelled by destiny, Candraśvāmin pleased the great sage and made a request.
१२.२५.४९
सत्यं कृपा चेद्भगवन्मयि ते शरणागते ।
तदेतां देहि मे विद्यां यत्प्रभावो ऽयमीदृशः ॥
तदेतां देहि मे विद्यां यत्प्रभावो ऽयमीदृशः ॥
Summary
AI
He pleaded, 'O Lord, if you truly favor me who has sought your protection, please grant me this science that possesses such wondrous power.'
॥ इति पञ्चविंशस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.