षष्ठस्तरङ्गः ।
१.६.१
ततः स मर्त्यवपुषा माल्यवान्विचरन्वने ।
नाम्ना गुणाढः सेवित्वा सातवाहनभूपतिम् ॥
नाम्ना गुणाढः सेवित्वा सातवाहनभूपतिम् ॥
Summary
AI
Then, that Mālyavān, wandering in the forest in a mortal body under the name Guṇāḍhya, served King Sātavāhana.
१.६.२
संस्कृताद्यास्तदग्रे च भाषास्तिस्रः प्रतिज्ञया ।
त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥
त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥
Summary
AI
Having renounced the three languages, beginning with Sanskrit, before the king as per his vow, he went to visit the Goddess Vindhyavāsinī with a dejected mind.
१.६.३
तदादेशेन गत्वा च काणभूतिं ददर्श सः ।
ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवत् ॥
ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाभवत् ॥
Summary
AI
Following her command, he went and saw Kāṇabhūti; then, remembering his own previous birth, he suddenly became enlightened.
१.६.४
आश्रित्य भाषां पैशाचीं भाषात्रयविलक्षणाम् ।
श्रावयित्वा निजं नाम काणभूतिं च सो ऽब्रवीत् ॥
श्रावयित्वा निजं नाम काणभूतिं च सो ऽब्रवीत् ॥
Summary
AI
Adopting the Paiśācī language, which is distinct from the three common languages, and announcing his own name, he spoke to Kāṇabhūti.
१.६.५
पुष्पदन्ताच्छ्रुतां दिव्यां शीघ्रं कथय मे कथाम् ।
येन शापं तरिष्यावस्त्वं चाहं च समं सखे ॥
येन शापं तरिष्यावस्त्वं चाहं च समं सखे ॥
Summary
AI
O friend, quickly tell me the divine story heard from Puṣpadanta, so that both you and I together may overcome our curse.
१.६.६
तच्छ्रुत्वा प्रणतो हृष्टः काणभूतिरुवाच तम् ।
कथयामि कथां किं तु कौतुकं मे महत्प्रभो ॥
कथयामि कथां किं तु कौतुकं मे महत्प्रभो ॥
Summary
AI
Hearing that, the delighted Kāṇabhūti bowed and said to him, "O Lord, I shall tell the story, but I have a great curiosity."
१.६.७
आजन्मचरितं तावच्छंस मे कुर्वनुग्रहम् ।
इति तेनार्थितो वक्तुं गुणाढ्यो ऽथ प्रचक्रमे ॥
इति तेनार्थितो वक्तुं गुणाढ्यो ऽथ प्रचक्रमे ॥
Summary
AI
"Pray, show me favor and relate your life story from birth." Being thus requested by him, Guṇāḍhya then began to speak.
१.६.८
प्रतिष्ठाने ऽस्ति नगरं सुप्रतिष्ठितसंज्ञकम् ।
तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥
तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥
Summary
AI
In the region of Pratiṣṭhāna, there is a city named Supratiṣṭhita. There lived an excellent Brāhmaṇa named Somaśarman.
१.६.९
वत्सश्च गुल्मकश्चैव तस्य द्वौ तनयौ सखे ।
जायेते स्म तृतीया च श्रुतार्था नाम कन्यका ॥
जायेते स्म तृतीया च श्रुतार्था नाम कन्यका ॥
Summary
AI
O friend, he had two sons, Vatsa and Gulmaka, and a third child, a daughter named Śrutārthā.
१.६.१०
कालेन ब्राह्मणः सो ऽथ सभार्यः पञ्चतां गतः ।
तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥
तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥
Summary
AI
In time, that Brāhmaṇa passed away along with his wife. His two sons remained, taking care of their sister.
१.६.११
सा चाकस्मात्सगर्भाभूत्तदृष्ट्वा वत्सगुल्मयोः ।
तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ॥
तत्रान्यपुरुषाभावाच्छङ्कान्योन्यमजायत ॥
Summary
AI
She suddenly became pregnant. Seeing this, and because no other man was present, Vatsa and Gulmaka began to suspect each other.
१.६.१२
ततः श्रुतार्था चित्तज्ञा भ्रातरौ तावभाषत ।
पापशङ्का न कर्तव्या शृणुतं कथयामि वाम् ॥
पापशङ्का न कर्तव्या शृणुतं कथयामि वाम् ॥
Summary
AI
Then Śrutārthā, sensing their thoughts, said to her brothers, "You should not entertain sinful suspicions. Listen, I will tell you both."
१.६.१३
कुमारः कीर्तिसेनाख्यो नागराजस्य वासुकेः ।
भ्रातुः पुत्रो ऽस्ति तेनाहं दृष्टा स्नातुं गता सती ॥
भ्रातुः पुत्रो ऽस्ति तेनाहं दृष्टा स्नातुं गता सती ॥
Summary
AI
"There is a prince named Kīrtisena, the son of the brother of Vāsuki, the King of Nāgas. While I had gone to bathe, I was seen by him."
१.६.१४
ततः स मदनाक्रान्तो निवेद्यान्वयनामनी ।
गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥
गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥
Summary
AI
"Overwhelmed by love, he disclosed his lineage and name, and then made me his wife through a Gāndharva marriage."
१.६.१५
विप्रजातेरयं तस्मान्मम गर्भ इति स्वसुः ।
श्रुत्वा कः प्रत्ययो ऽत्रेति वत्सगुल्माववोचताम् ॥
श्रुत्वा कः प्रत्ययो ऽत्रेति वत्सगुल्माववोचताम् ॥
Summary
AI
Hearing from their sister that her child was of noble lineage, Vatsa and Gulmaka asked, "What proof is there of this?"
१.६.१६
ततो रहसि सस्मार सा तं नागकुमारकम् ।
स्मृतमात्रागतः सो ऽथ वत्सगुल्मावभाषत ॥
स्मृतमात्रागतः सो ऽथ वत्सगुल्मावभाषत ॥
Summary
AI
Then she remembered that Nāga prince in private. Appearing as soon as he was thought of, he spoke to Vatsa and Gulmaka.
१.६.१७
भार्या कृता मयैवेयं शापभ्रष्टा वराप्सराः ।
युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ॥
युष्मत्स्वसा युवां चैव शापेनैव च्युतौ भुवि ॥
Summary
AI
"I have indeed made her my wife. Your sister is a celestial nymph fallen by a curse, and both of you have also fallen to earth due to a curse."
१.६.१८
पुत्रो जनिष्यते चात्र युष्मत्स्वसुरसंशयम् ।
ततो ऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ॥
ततो ऽस्याः शापनिर्मुक्तिर्युवयोश्च भविष्यति ॥
Summary
AI
"Undoubtedly, a son will be born to your sister. Then, she and both of you will be released from your curses."
१.६.१९
इत्युक्त्वान्तर्हितः सो ऽभूत्ततः स्तोकैश्च वासरैः ।
श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ॥
श्रुतार्थायाः सुतो जातस्तं हि जानीहि मां सखे ॥
Summary
AI
Saying this, he vanished. After a few days, a son was born to Śrutārthā. O friend, know that I am that very son.
१.६.२०
गणावतारो जातो ऽयं गुणाढ्यो नाम ब्राह्मणः ।
इति तत्कालमुदभूदन्तरिक्षात्सरस्वती ॥
इति तत्कालमुदभूदन्तरिक्षात्सरस्वती ॥
Summary
AI
"This Brāhmaṇa named Guṇāḍhya is an incarnation of a celestial attendant (Gaṇa)." Thus, at that moment, a voice from the sky arose.
१.६.२३
कालेन तत्र संप्राप्य सर्वा विद्याः प्रसिद्धिमान् ।
स्वदेशमागतो ऽभूवं दर्शयिष्यन्निजान्गुणान् ॥
स्वदेशमागतो ऽभूवं दर्शयिष्यन्निजान्गुणान् ॥
१.६.४१
कृत्वा तांश्चणकान्भृष्टान्गृहीत्वा जलकुम्भिकाम् ।
अतिष्ठं चत्वरे गत्वा छायाया नगराद्वहिः ॥
अतिष्ठं चत्वरे गत्वा छायाया नगराद्वहिः ॥
Summary
AI
Having prepared those roasted chickpeas and taken a small jar of water, I went outside the city and stood in the shade at a crossroads.
१.६.४२
तत्र श्रान्तागतायाम्भः शीतलं चणकांश्च तान् ।
काष्ठभारिकसंघाय सप्रश्रयमदामहम् ॥
काष्ठभारिकसंघाय सप्रश्रयमदामहम् ॥
Summary
AI
There, I respectfully gave cold water and those chickpeas to a group of woodcutters who had arrived exhausted.
१.६.४३
एकैकः काष्ठिकः प्रीत्या काष्ठे द्वे द्वे ददौ मम ।
चिक्रीतवानहं तानि नीत्वा काष्ठानि चापणे ॥
चिक्रीतवानहं तानि नीत्वा काष्ठानि चापणे ॥
Summary
AI
Each woodcutter affectionately gave me two pieces of wood. I then took those logs to the market and sold them.
१.६.४४
ततः स्तोकेन मूल्येन क्रीत्वा तांश्चणकांस्ततः ।
तथैव काष्ठिकेभ्यो ऽहमन्येद्युः काष्ठमाहरम् ॥
तथैव काष्ठिकेभ्यो ऽहमन्येद्युः काष्ठमाहरम् ॥
Summary
AI
Buying more chickpeas with that small profit, I obtained wood from the woodcutters the following day in the same manner.
१.६.४५
एवं प्रतिदिनं कृत्वा प्राप्य मूल्यं क्रमान्यया ।
काष्ठिकेभ्यो ऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ॥
काष्ठिकेभ्यो ऽखिलं दारु क्रीतं तेभ्यो दिनत्रयम् ॥
Summary
AI
Doing this daily and gradually accumulating money, I bought all the wood from those woodcutters for three days.
१.६.४६
अकस्मादथ संजाते काष्ठच्छेदे ऽतिवृष्टिभिः ।
मया तद्दारु विक्रीतं पणानां बहुभिः शतैः ॥
मया तद्दारु विक्रीतं पणानां बहुभिः शतैः ॥
Summary
AI
When a wood shortage suddenly occurred due to heavy rains, I sold that timber for many hundreds of paṇas.
१.६.४७
तेनैव विपणिं कृत्वा धनेन निजकौशलात् ।
कुर्वन्वणिज्यां क्रमशः संपन्नो ऽस्मि महाधनः ॥
कुर्वन्वणिज्यां क्रमशः संपन्नो ऽस्मि महाधनः ॥
Summary
AI
With that capital, I set up a shop and, through my own skill in trade, gradually became extremely wealthy.
१.६.४८
सौवर्णो मूषकः कृत्वा मया तस्मै समर्पितः ।
विशाखिलाय सो ऽपि स्वां कन्यां मह्यमदात्ततः ॥
विशाखिलाय सो ऽपि स्वां कन्यां मह्यमदात्ततः ॥
Summary
AI
I had a golden mouse made and presented it to Viśākhila; he then gave me his own daughter in marriage.
१.६.४९
अत एव च लोके ऽस्मिन्प्रसिद्धो मूषकाख्यया ।
एवं लक्ष्मीरियं प्राप्ता निर्धनेन सता मया ॥
एवं लक्ष्मीरियं प्राप्ता निर्धनेन सता मया ॥
Summary
AI
For this reason, I became famous in this world by the name Mūṣaka. Thus was this fortune attained by me, though I was once penniless.
॥ इति षष्ठस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.