न हि तं पश्यामि, यो ह्यपरिचितयानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमालेख्यगतापि चलति, श्रुताप्यभिसंधत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि — अभिषेकसमय एवैषां
मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम् । अग्निकार्यधूमेनेव मलिनीभवति हृदयम् । उष्णीषपट्टबन्धेनेवाच्छाद्यते जरागमनस्मरणम् । आतपत्रमण्डलेनेवापवार्यते परलोकदर्शनम् । चामरपवनैरिवापह्रियते सत्यवादिता । वेत्रदण्डैरिवोत्सार्यन्ते गुणाः। तथाहि — केचिद्धनलवलाभावलेपविस्मृतजन्मानः, विविधविषयग्रासलालसैः पञ्चभिरप्यनेकसहस्रसंख्यैरिवन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणैकेनापि शतसहस्रतामिवोपगतेन मनसाकुलीक्रियमाणाः, विह्वलतामुपयान्ति । धनोष्मणा पच्यमाना इव विचेष्टन्ते । गाढप्रहाराहता इवाङ्गानि न धारयन्ति । कुलीरा इव तिर्यक्परिभ्रमन्ति । अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते । मृषावादविपाकसञ्जातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति । आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति । उत्कुपितलोचना इव तेजस्विनो नेक्षन्ते । कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते । तृष्णाविषमूर्च्छिताः कनकमयमिव सर्वं पश्यन्ति । इषव इव पानवर्धिततैक्ष्ण्याः परप्रेरिता विनाशयन्ति । श्मशानाग्नय इवातिरौद्रभूतयः । श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति । चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति । अनुदिवसमापूयर्माणाः पापेनेवाध्मातमूर्तयो भवन्ति । तदवस्थाश्च वल्मीकतॄणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ॥
॥ इति राज्ञां वैक्लव्यम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.