॥ अथ लक्ष्मीस्वभावः ॥
आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि लक्ष्मीः क्षीरसागरात्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसशञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कोस्तुभमणेरतिनैष्ठुर्यम् इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्मानि गृहीत्वैवोद्गता । न ह्येवंविधमपरमपरिचितमिह जगति किञ्चिदस्ति, यथेयमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढगुणपाशसंदाननिःस्पन्दीकृतापि नश्यति । न परिचयं रक्षति । नाभिजनमीक्षते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न श्रुतमाकर्णयति । न धर्ममनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । गन्धर्वनगरलेखेव पश्यत एव नश्यति अद्याप्यारूढमन्दरपरिवर्तभ्रान्तिजनितसंस्कारेव परिभ्रमति । पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः । पातालगुहेव तमोबहुला । प्रावृडिवाचिरद्युतिकारिणी । स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीतमार्ययेव नालिङ्गति जनम् । गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वममङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति । अभिजातमहिमिव न लङ्घयति । शूरं कण्टकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति ॥
यथा यथा चेयं चपला दीप्यते, तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति । तथा हि — इयं संवर्धनवारिधार तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, विभ्रमशय्या मोहदीर्घनिद्राणाम्, आवासदरी दोषाशीविषाणाम्, अकालप्रावृट् गुणकलहंसकानाम्, प्रस्तावना कपटनाटकस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य ॥
॥ इति लक्ष्मीस्वभावः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.