उद्धव उवाच ।
११.२२.९
पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।
यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥
यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥
११.२२.१२
प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः ।
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥
उद्धव उवाच ।
११.२२.२८
त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः ।
त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ॥
त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ॥
११.२२.२९
श्रीभगवानुवाच ।
प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ ।
एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥
प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ ।
एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥
उद्धव उवाच ।
११.२२.३५
तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः ।
न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥
न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥
॥ इति द्वाविंशोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.