॥ अथ उपाध्याद्यर्थचतुष्टयप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे पञ्चमः प्रकाशः
उपाध्याद्यर्थचतुष्टयप्रकाशो नाम
(५. उपाधिः)
(क्रियोपाधिः—१२)
प्रकृत्यर्थप्रत्ययार्थभेदेषु कारकाणां प्रवृत्तिविशेषः क्रियाः तामनुपहितां कृभ्वस्तयो वदन्ति। तेषां परस्परमसंभेदसंभेदाभ्यां साम्योत्कर्षापकर्षजन्मानो द्वादश धात्वर्थभेदाः क्रिया भवन्ति। तद्यथा —
अकर्मकाः अन्तःकर्मकाः, अर्थान्तरकर्मकाः, अविवक्षितकर्मकाः, प्रसिद्धकर्मकाः, द्विकर्मकाः, प्रसिद्धकर्तृकाः, भावकर्तृकाः, कर्मकर्तृकाः, कर्तृस्थक्रियाः, कर्मस्थक्रियाः, उभयस्थक्रियाश्‍चेति।
ते चापरिस्पन्दसपरिस्पन्दभेदात् प्रत्येकं द्विधा भूत्वा चतुर्विंशतिर्जायन्ते।
तत्र स्वभावतोऽस्तिस्तु उदासीनकर्तृकत्वाद् अपरिस्पन्दः।
करोतिः प्रयुञ्जानकर्तृकत्वात् सपरिस्पन्दः।
भवतिः विकुर्वाणकर्तृकत्वात् सपरिस्पन्दापरिस्पन्द इति स्थितम्।
(१. अकर्मकाः) अतोऽस्त्यर्था भवत्यर्थाश्‍च न्यग्भवतयो न्यगतयश्‍चाकर्मका भवन्ति। तेषु—
पूर्वे अपरिस्पन्दा यथा— भिद्यते, स्वदते, वर्तते, प्रीयत इति।
उत्तरे सपरिस्पन्दा यथा— जायते, विवर्धते, X X X X X X ते, स्फुरतीति।
(२. अन्तः कर्मकाः) त एव न्यक्करोतयोऽन्तः कर्मकाः; तेषु —
पूर्वे अपरिस्पन्दा यथा— जीवति, म्रियते, पुत्रीयति, प्राणितीति। उत्तरे सपरिस्पन्दा यथा— नृत्यति, श्वसिति, बाष्पायते, रोदितीति।
(३. अर्थान्तरकर्मकाः) अस्तिकरोत्यर्थाः करोतिभवत्यर्थाश्‍चार्थान्तरकर्मकाः। तेषु —
पूर्वे अपरिस्पन्दा यथा— तरति काष्ठं, तरति विपदं, विपर्यस्यति मतिं, विपर्यस्यति हस्तमिति।
उत्तरे सपरिस्पन्दा यथा— वहति नदी, वहति भारं, पतति पर्णं, पतत्यध्वानमिति।
(४. अविवक्षितकर्मकाः) त एवानुत्करोतयोऽपि अविवक्षितकर्मकाः। तेषु —
पूर्वे अपरिस्पन्दा यथा— संज्ञा संज्ञिन्यभिनिविशते, बुद्धिस्तत्त्वमभिनिविशते, तीर्थ उपविसति, त्रिरात्रमुपवसतीति।
उत्तरे सपरिस्पपन्दा यथा— चैत्रो हसति, मैत्रं हसति, चक्रं भ्रमति, देशान् भ्रमतीति।
(५. प्रसिद्धकर्मकाः) उत्करोतयस्तु त एव प्रसिद्धकर्मकाः। तेषु—
पू्र्वे अपरिस्पन्दा यथा— वपतीत्युक्ते बीजमिति गम्यते, प्रसूत इत्युक्ते गर्भमिति गम्यत इति।
उत्तरे सपरिस्पन्दा यथा— कृषतीत्युक्ते क्षेत्रमिति गम्यते, परिणयतीत्युक्ते कन्यामिति गम्यत इति।
(६. द्विकर्मकाः) सत्येवोत्करोतित्वे न्यगस्तयो न्यग्भवतयश्‍च त एव द्विकर्मकाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— लिङ्गं लिङ्गिनमवगमयति ज्ञातारं, जयति शतमश्वानश्वसेनमिति।
उत्तरे सपरिस्पन्दा यथा— गां दोग्धि पयः, वृक्षमपचिनोति फलानीति। एवमेते षट् द्वियोगविकल्पाः। परं त्रियोगविकल्पाः षड्भवन्ति।
(७. प्रसिद्धकर्तृताः) तत्रोदस्तय उद्भवतयो वा प्रसिद्धकर्तृकाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— दहतीत्युत्त्के वह्निरिति गम्यते।
उत्तरे सपरिस्पन्दा यथा— कूजतीत्युक्ते (पिक इति गम्यते), (हेषत इत्युक्ते) अश्‍व इति गम्यत इति।
(८. भावकर्तृकाः) न्यग्भवतिकरोतयो न्यगस्तिकरोतयो वा भावकर्तृकाः। तेषु— पूर्वे अपरिस्पन्दा यथा —चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयतीति।
उत्तरे सपरिस्पन्दा यथा— भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति।
(९. कर्मकर्तृकाः) उदस्तिन्यक्करोतय उद्भवतिन्यक्करोतयो वा कर्मकर्तृकाः। तेषु—
पू्र्वे अपरिस्पन्दा यथा— दुग्धे गौस्स्वयमेव, प्रस्‍नुते गौस्स्वयमेव, भूषयते कन्या स्वयमेवेति।
उत्तरे सपरिस्पन्दा यथा—अवकिरते हस्ती स्वयमेव, नमते दण्डः स्वयमेव, उच्छ्रयते दण्डस्स्वयमेव, आरोहयते हस्ती स्वयमेवेति।
(१०. कर्तृस्थक्रियाः) उदस्तिकरोतयः उद्भवतिकरोतयो वा कर्तृस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा—अर्हति पूजां, जानाति वर्णं, पश्‍यति रूपं, शृणोति शब्दमिति। उत्तरे सपरिस्पन्दा यथा— गच्छति, ग्रामम्, आरोहयत्यश्वम् इति।
(११. कर्मस्थक्रियाः) न्यग्भवत्युत्करोतयो न्यगस्त्युत्करोतयो वा कर्मस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— दुनोति शत्रुं, धिनोति मित्रं, मदयति सुहृदं, सुखयति सखायमिति।
उत्तरे सपरिस्पन्दा यथा— पचत्योदनं, भिनत्ति कुसूलं, संक्ष्णुते शस्त्रं, तक्ष्णोति यूपमिति।
(१२. उभयस्थक्रियाः) न्यग्भवत्युदस्तिकरोतयो न्यगस्त्युद्भवतिकरोतयो वा उभयस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— लभते पूजां, प्राप्‍नोति धर्मम् . . . . . . . . .।
उत्तरे सपरिस्पन्दा यथा— भुङ्क्त ओदनम्, अधीते स्वाध्यायं, तप्यते तपः, साधयति स्वर्गमिति।
ननु च भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति नैतावस्तिभवत्यर्थौ, अपि तु साक्षादस्तिभवती। तौ चानुपहितक्रियाभिधायकाविति नोपाधी भवितुमर्हतः। उच्यते— 'अस भुवि', 'भू सत्तायाम्' इति धातुपाठादनु— प्रयोगवर्जमार्धधातुकेऽस्तेर्भूविधानात् सङ्कर एवेति विज्ञायते। एवमपि करोत्यर्थानुप्रवेशो दुरुपपादः। सोऽपि कर्तृत्वान्यथानुपपत्तेरुपपत्स्यते।
ननु च भवति पक्ष्यति, भवत्यपाक्षीदित्ययं लट्‌प्रयोग एव। अस्ति गच्छामो वयमिति च अस्तिप्रयोगोऽपि भावकर्तृकेषु दृश्‍यते।
नैवम्; नास्माभिरस्तिभवति भावकर्तृकावेवोच्येते, अपि तु अस्तिभवति— कर्तारोऽस्त्यादयः पचत्यादयश्‍च। ते हि रुजत्यादिवदुपाधिपरा अपि अस्तौ कर्तारो भवन्ति। एतावाँस्तु विशेषः, रुजादीनां कर्तृत्वं तत्परेणैव लकारेणोच्यते, पचादीनां च भवत्यस्तिपरेणेति।
(कालोपाधिः—१२)
यथा च धात्वर्थः क्रियोपाधिरेवं कालोऽपि। यदुक्तम्—
क्रियोपाधिश्‍च सन् भूतभविष्यद्‌वर्तमानताः।१
॥ इति उपाध्याद्यर्थचतुष्टयप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.