Loading data... On slow networks this could take a few minutes.
100%

आमृष्टस्तिलकरुचः स्रजो निरस्ता
नीरक्तं वसनमपाकृतोङ्गरागः ।
कामः स्त्रीरनुशायवानिव स्वपक्ष-
व्याघातादिति सुतरां चकार चारूः ॥

मल्लिनाथः आमृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः । स्रजो माला निरस्ताः । वसनं कौसुम्भं वासो नीरक्तमरक्तम् । निरस्तरागमित्यर्थः । कृतमिति शेषः । अङ्गरागोऽपाकृतः । सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्षव्याघातात् स्ववर्गक्षयात् अनुशयवाननुतापवानिवेत्युत्प्रेक्षा । कामः स्त्रीः स्त्रियः । `वाम्शसोः` (अष्टाध्यायी ६.४.८० ) इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः । सुतरां चारूः पूर्वतोऽपि रमणीयाश्चकार । स्त्रीणां काम एव भूषणमन्यद्वैरूप्यमेवेति भावः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मृ ष्ट स्ति रु चः स्र जो नि स्ता
नी क्तं पा कृ तो ङ्ग रा गः
का मः स्त्री नु शा वा नि स्व क्ष
व्या घा ता दि ति सु रां का चा रूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.