Loading data... On slow networks this could take a few minutes.
100%

मुग्धत्वादविदितकैतवप्रयोगा
गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ता कान्तैः सह करपुष्करेरिताम्बु-
व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥

मल्लिनाथः मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत एव सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तैः सहाभिसरणं स्वयमभिगमनं ग्लहो द्यूतं पणो यस्यास्ताम् । `पणोऽक्षेषु ग्लहः` इत्यमरः । `अक्षेषु ग्लहः` (अष्टाध्यायी ३.३.७० ) इति ग्रहेरेवाक्षपणे लत्वनिपातः । अप्प्रत्ययस्तु `ग्रहवृदृनिश्चिगमश्च` (अष्टाध्यायी ३.३.५८ ) इत्येव सिद्ध इति केचित् । अन्ये तु ग्लहिं प्रकृत्यन्तरमङ्गीकृत्याप्प्रत्ययस्यैव निपातो घञपवादीत्याहुः । करपुष्करैः करकमलैरीरितैरम्बुभिर्यां व्यात्युक्षीं व्यतिहारेणोक्षणम् । परस्पराभ्युक्षणमित्यर्थः । `कर्मव्यतिहारे णच् स्त्रियाम्` (अष्टाध्यायी ३.३.४३ ) इति णच्प्रत्ययः । `णचः स्त्रियामञ्` (अष्टाध्यायी ५.४.१४ ) इति स्वार्थिकोऽञ्प्रत्ययः । `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । तां व्यात्युक्षीमदीव्यन् । तया अक्रीडन्नित्यर्थः । `दिवः कर्म च` (अष्टाध्यायी १.४.१४३ ) इति विकल्पात्कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु ग्ध त्वा वि दि कै प्र यो गा
च्छ न्त्यः दि रा यं रु ण्यः
ता का न्तैः पु ष्क रे रि ता म्बु
व्या त्यु क्षी भि ग्ल हा दी व्यन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.