Loading data... On slow networks this could take a few minutes.
100%

अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥

मल्लिनाथः अवजितमिति ॥ विलासवत्याः स्त्रियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहमधुना तवाक्ष्णो रुचिरतया रुचिरस्य भावो रुचिरता । भावे तल् । तया सौन्दर्येणावजितमिति वक्तव्यानुवादः । अत एव लज्जयावनम्य भ्रमररुतैः । तन्मिषेणेत्यर्थः । उपकर्णं कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युप्रेक्षा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.