Loading data... On slow networks this could take a few minutes.
100%

इति वदति सखीजने निमील-
द्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपदतलिभयेन भर्तुरङ्गं
भवति हि विक्लवता गुणोऽङ्गनानाम् ॥

मल्लिनाथः (विशेषकम् ।) इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन् सखीजने वदति सति निमीलन्त्यौ भयान्मुकुलीभवन्त्यौ अत एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । `गुणास्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु` इति वैजयन्ती । ते कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्ष्ममाले नेत्रलोमपङ्क्ती यस्याः सा । काचिदिति शेषः । अक्षिग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरक्ष्णोरेवेति द्योतनार्थत्वान्न पौनरुक्त्यम् । अलिभयेन भर्तुरङ्कमुत्सङ्गमपतत् प्राप्तवती । अहो महत्कष्टं यत्कीटकादपि भयमित्याशङ्क्याह-अङ्गनानाम् । न तु पुंसामिति भावः । विक्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरङ्कारोहणमपि न दोषः । पार्श्वस्थालम्बनादीनां भयानुभावत्वात् । कुलकेऽलंकारोऽयमर्थान्तरन्यासः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ति ति खी ने नि मी
द्वि गु णि सा न्द्र रा क्षि क्ष्म मा ला
लि ये र्तु ङ्गं
ति हि वि क्ल ता गु णो ऽङ्ग ना नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.