Loading data... On slow networks this could take a few minutes.
100%

अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥

मल्लिनाथः अभीति ॥ क्षुभित उद्धतो यः सैन्यपरागः सेनारजः स इव विपाण्डुरद्युतिः शुभ्रवर्णो यो लोध्ररजश्चयः भुवनान्यभिषिषेणयिषुं सेनयाभियातुमिच्छन्तम् । `यत्सेनयाभिगमनमरौ तदभिषेणनम्` इत्यमरः । `सत्यापपाश-` (अष्टाध्यायी ३.१.२५ ) इत्यादिना सेनाशब्दाण्णिचि सनि `सनाशंसभिक्ष उः` (अष्टाध्यायी ३.२.१६८ ) इत्युप्रत्ययः। `स्थादिष्वभ्यासेन-` (अष्टाध्यायी ८.३.६४ ) इति धात्वभ्याससकारयोः षत्वम् । स्मरमाख्यतेव ख्यातवानित्युत्प्रेक्षा। चक्षिङः ख्याञ्। `अस्यतिवक्तिख्यातिभ्योऽङ्` (अष्टाध्यायी ३.१.५२ ) इति च्लेरङादेशः । अयं लोध्ररजश्चयो दिशस्तिरयन् तिरस्कुर्वन् । तिरःशब्दात् `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्ठवद्भावे टिलोपः । उदभूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.