Loading data... On slow networks this could take a few minutes.
100%

गजद्वयसीरपि हैमन-
स्तुहिनयन्सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषिता-
मतुनतातनुतापकृतं दृशां ॥

मल्लिनाथः गजपतीति ॥ गजपतिः प्रमाणमासां गजपतिद्वयसीर्महागजप्रमाणाः । `प्रमाणे द्वयसज्दघ्नञ्मात्रचः` (अष्टाध्यायी ५.२.३७ ) इति प्रमाणार्थे द्वयसच् प्रत्ययः । `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । ता अपि सरितस्तुहिनयन् हिमीकुर्वन् । `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शत्रादेशः । हेमन्ते भवो हैमनः । `सर्वत्राण्च तलोपश्च` (अष्टाध्यायी ४.३.२२ ) इति हेमन्तशब्दाच्छैषिकोऽण् प्रत्ययः तकार लोपश्च । पृषतां बिन्दूनां पतिर्वायुः । `पृषन्ति विन्दुपृषताः` इत्यमरः । अध्वानं गच्छन्तीत्यध्वगाः पथिकाः । `अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः` (अष्टाध्यायी ३.२.४८ ) तद्योषितां प्रोषितभर्तृकाणां दृशामतनुतापकृतं महासंतापकारिणीं सलिलसंततिमतनुत । उष्णमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहिणीदुःसहोऽजनीति भावः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
द्व सी पि है
स्तु हि न्स रि तः पृ तां तिः
लि न्त ति ध्व यो षि ता
तु ता नु ता कृ तं दृ शां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.