Loading data... On slow networks this could take a few minutes.
100%

विलुलितामनिलैः शरदङ्गना
नवसरोरुहकेशरसम्भवाम् ।
विकरितुं परिहासविधित्सया
हरिवधूरिव धूलिमुधक्षिपत् ॥

मल्लिनाथः विलुलितामिति ॥ शरदेवाङ्गना इति रूपकम् । अनिलैर्विलुलितां विक्षोभितां नवसरोरुहकेशरसंभवां धूलिं परागं परिहासविधित्सया नर्मरीतिचिकीर्षया । दधातेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । हरिवधूः विकरितुं विक्षेप्तुमिव । `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्` (अष्टाध्यायी ३.३.१० ) इति तुमुन्प्रत्ययः । उदक्षिपत् प्रेरितवती । रूपकोज्जीवितेयमुत्प्रेक्षा । किरतिरयं कीर्यमाणकर्मा । यथा रजः किरति मारुतः । क्वचित्तत्कारकोद्देश्यकर्मा यथात्रैवेति विवेकः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
वि लु लि ता नि लैः ङ्ग ना
रो रु के म्भ वाम्
वि रि तुं रि हा वि धि त्स या
रि धू रि धू लि मु क्षि पत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.