यां चन्द्रकैर्मदजलस्य महानदीनां
नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
तां प्रत्यवापुरविलम्बितमुत्तरन्तो
धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥

मल्लिनाथः यामिति ॥ गजेन्द्राः विकसतः समन्तात्पयसि तैलबिन्दुवत्प्रसरतो मदज. लस्य चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनां यां नेत्रश्रियं विदधुः चक्रुस्तां नेत्रश्रिय मुत्तरन्तो जलान्निर्गच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नैः सक्तैर्नवनीलपयोजपत्रैर्नव. नीलोत्पलदलैरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च समनेत्रश्रीविनिमयोक्त्या समपरिवृत्तिरलंकारः । `समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥` इति लक्षणात्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
यां न्द्र कै र्म स्य हा दी नां
ने त्र श्रि यं वि तो वि धु र्ग जे न्द्राः
तां प्र त्य वा पु वि म्बि मु त्त न्तो
धौ ता ङ्ग ग्न नी यो स्त्रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.