ये पक्षिणः प्रथममम्बुनिधिं गतास्ते
येऽपीन्द्रपाणितुलायुधलूनपक्षाः ।
तेजग्मुरद्रिपतयः सरसीर्विगाढु-
माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥

मल्लिनाथः य इति ॥ ये पक्षिणः पक्षवन्तः । इन्द्रेणाच्छिन्नपक्षा इत्यर्थः । संसर्गे इनिप्रत्ययः । तेऽद्रिपतयो मैनाकादयः प्रथममम्बुनिधिं गताः प्रविष्टाः । येऽपि । ये ये इत्यर्थः । इन्द्रस्य पाणिना तुलितेन प्रेरितेनायुधेन वज्रेण लूनपक्षाश्छिन्नगरुतस्तेऽद्रिपतय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः, पृष्टास्तरणानि च येषाम् । प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः` इत्यमरः । तेषां सैन्यगजानां छलेन सरसीर्विगाढुं विगाहितुम् । `स्वरतिसूति-` (७/२।४४) इति विकल्पान्नेडागमः । जग्मुः । अत्र गजच्छलेनेति छलशब्देन गजत्वमपहृत्याद्रित्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः । तेन पक्षवतामद्रीणां सागरावगाहनदर्शनान्मत्सरात् स्वयमपि सलिलमवगाहमानाः साक्षालूनपक्षाः पर्वता इवेत्युत्प्रेक्षा व्यज्यते
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ये क्षि णः प्र म्बु नि धिं ता स्ते
ये ऽपी न्द्र पा णि तु ला यु लू क्षाः
ते ग्मु द्रि यः सी र्वि गा ढु
मा क्षि प्त के तु कु सै न्य च्छ ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.