समीरशिशिरः शिरःसुवसता
सता जवनिका निकानसुखिनाम् ।
बिभर्तिजनयन्नयं मुदमपा-
मपायधवला वलाहकततीः ॥

मल्लिनाथः समीरेति ॥ समीरेण मारुतेन शिशिरः शीतलः शिरःसु शिखरेषु वसतां निकामसुखिनामत्यन्तसुखिनां सतां पुण्यवतां मुदं जनयन्नयमद्विरपामम्भसामपायेनापगमेन धवला बलाहकततीर्मेघपङ्क्तीरेव जवनिकास्तिरस्करिणीर्बिभर्ति । अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणतां संपाद्य मुदं जनयतीत्यर्थः ॥ अत्र&#३२; बलाहकततिष्वारोप्यमाणानां जवनिकानां मुदं जनयन्निति प्रकृतोपयोगिवर्णनात् परिणामालंकारः । `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः` इति लक्षणात् । रूपके तूपरञ्जनमात्रमिति भेदः । जलोद्धतगतिर्वृत्तम् । `रसैर्जसजसा जलोद्धतगतिः` इति लक्षणात्
छन्दः जलोद्धतगतिः [१२: जसजस]
छन्दोविश्लेषणम्
१० ११ १२
मी शि शि रः शि रः सु ता
ता नि का नि का सु खि नाम्
बि र्ति न्न यं मु पा
पा ला ला तीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.