Loading data... On slow networks this could take a few minutes.
100%

वर्जयन्त्या जनैः संगमेकान्तत-
स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
योषयैष स्मरासन्नतापाङ्गया
सेव्यतेऽनेकया संन्नतापङ्गया ॥

मल्लिनाथः वर्जयन्त्येति ॥ एकान्तत एकान्ते । रहसीत्यर्थः । कान्ततः कान्तेन । प्रियेणेत्यर्थः । उभयत्रापि सार्वविभक्तिकस्तसिः । संगमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया । विस्रब्धं विहारमाकाङ्क्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्त्या । कुतः । स्मरणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया स्मरासन्नतापाङ्गया । `अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्` (वृत्तिवा०) इति विकल्पादिह पक्षे टाप् । संनतौ नम्रावपाङ्गौ यस्यास्तया संनतापाङ्गया स्मरतापात् कूणितनेत्रया अनेकया योषया।अनेकाभिर्योषाभिरित्यर्थः । जातावेकवचनम् । `स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः` इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । `रैश्चतुर्भिर्युता स्रग्विणी संमता` इति लक्षणात्
छन्दः स्रग्विणी [१२: रररर]
छन्दोविश्लेषणम्
१० ११ १२
र्ज न्त्या नैः सं मे का न्त
स्त र्क न्त्या सु खं ङ्ग मे का न्त तः
यो यै स्म रा न्न ता पा ङ्ग या
से व्य ते ऽने या सं न्न ता ङ्ग या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.