Loading data... On slow networks this could take a few minutes.
100%

दन्तोज्ज्वलासु विमलोपलमेखलान्ताः
सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन्भजन्ति घनकोमलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु ॥

मल्लिनाथः दन्तोज्ज्वलाखिति ॥ अस्मिन्नद्रौ दन्ता निकुञ्जाः, दशनाश्च । `दन्तो निकुञ्जे दशने` इति विश्वः । तैरुज्वलासु रुचिरासु सदत्वैश्चित्राणि कटकानि सानूनि, वलयानि च यासां तासु । `कटकं वलये सानौ` इति विश्वः । अधित्यकासूर्ध्वभूमिषु । `भूमिरूमधित्यका` इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारूढयोः` (अष्टाध्यायी ५.२.३४ ) इत्यधिशब्दात्त्यकन्प्रत्ययः । विमलोपला उज्वलशिलाः, उज्वलमणयो वा मेखलाः काञ्झ्योः, नितम्बभूमयश्च । `मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः` इति विश्वः । ताभिरन्ता रम्याः । `मृताववसिते रम्ये समाप्तावन्त इष्यते` इति शब्दार्णवे । बृहन्तो नितम्बाः कटिपश्चाद्भागाः शिखराणि च यासां ताः । `नितम्बो रोधसि स्कन्धे शिखरेऽपि कटेरधः` इति विश्वः । घना विपुलाः कोमलाः श्लक्ष्णा गण्डशैला गण्डस्थलानि; स्थूलोपलाश्च यासां ता नार्योऽनुरूपमिच्छासदृशं, आत्मसदृशं वाधिवासं भजन्ति । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकृतगोचरा श्लेषोपस्थापिता तुल्ययोगिता । अत एवोभयविशेषणान्युभयत्र विभक्तिविपरिणामेन योज्यानि
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
न्तो ज्ज्व ला सु वि लो मे ला न्ताः
द्र त्न चि त्र का सु बृ न्नि म्बाः
स्मि न्भ न्ति को ण्ड शै ला
ना र्यो ऽनु रू धि वा धि त्य का सु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.