Loading data... On slow networks this could take a few minutes.
100%

कुशशयैरत्र जलाशयोषिता
मुदारमन्ते कलभाविकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषिता-
मुदारम कलभाविकस्वरैः ॥

मल्लिनाथः कुशेशयैरिति ॥ अत्रादौ जलाशयोषिता जलाशयेषु हृदेषु उषिता वसन्तः । `गत्यर्थाकर्मक-` (अष्टाध्यायी ३.४.७२ ) इत्यादिना वसतेः कर्तरि क्तः । संप्रसारणम् `मतिबुद्धिपूजार्थेभ्यश्च` (अष्टाध्यायी ३.२.१८८ ) इति चकाराद्वर्तमानार्थता । कलभास्त्रिंशद्वर्षकरिणः । त्रिंशद्वर्षस्तु कलभः` इति वैजयन्ती । विकस्वरैर्विकसनशीलैः । `स्थेशभासपिसकसो वरच्` (अष्टाध्यायी ३.२.१७५ ) । कुशेशयैः शतपत्रैः । `शतपत्रं कुशेशयम्` इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमलाकराणामयमाकर इति भावः । किंच कला अव्यक्तमधुराः। विकारो मानसो भावः स प्रयोजनमेषां भाविकाः । उद्दीपका इत्यर्थः । कला भाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविकस्वरैः सिद्धगणैः सुरसङ्घैः, योषितां स्वस्त्रीणामन्ते समीपे उदारमुच्चैः प्रगीयते च । भूस्वर्गोऽयमिति भावः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
कु यै त्र ला यो षि ता
मु दा न्ते भा वि स्व रैः
प्र गी ते सि द्ध णै श्च यो षि ता
मु दा भा वि स्व रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.