लवङ्गमालाकलितावतंसा-
स्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादिताद्रक्रमुकाः समुद्रा-
दभ्यागतस्य प्रतिपत्तिमीयुः ॥
लवङ्गमालाकलितावतंसा-
स्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादिताद्रक्रमुकाः समुद्रा-
दभ्यागतस्य प्रतिपत्तिमीयुः ॥
स्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादिताद्रक्रमुकाः समुद्रा-
दभ्यागतस्य प्रतिपत्तिमीयुः ॥
मल्लिनाथः
लवङ्गेति ॥ लवङ्गमालाभिर्लवङ्गकुसुममाल्यैः कलितावतंसाः कृतभूषणाः । नारिकेलान्तरित्यव्ययम् । नारिकेलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे `ऋक्पूर्-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तप्रसङ्गात् । पिबन्तः । आस्वादिता भक्षिता आर्द्रक्रमुका आईपूगीफलानि यैस्ते । `घोण्टा तु पूगः क्रमुकः` इत्यमरः । ते चमूचराः समुद्रादभ्यागतस्यातिथेः प्रतिपत्तिं गौरवं सत्कारमीयुः । `प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च` इति विश्वः । अत्राभ्यागतप्रतिपत्तिप्राप्तेर्विशेषणगत्या अवतंसकलनादिपदार्थहेतुत्वात् काव्यलिङ्गमलङ्कारः । तेन समुद्रचमूचराणां गृहस्थाभ्यागतौपम्यप्रतीतेरलंकारेणालंकारध्वनिः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| ल | व | ङ्ग | मा | ला | क | लि | ता | व | तं | सा |
| स्ते | ना | रि | के | ला | न्त | र | पः | पि | ब | न्तः |
| आ | स्वा | दि | ता | द्र | क्र | मु | काः | स | मु | द्रा |
| द | भ्या | ग | त | स्य | प्र | ति | प | त्ति | मी | युः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.