Loading data... On slow networks this could take a few minutes.
100%

व्यगमन्सहसा दिशां मुखेभ्यः
शमयित्वा शिखिनाङ्घनाघनौघाः ।
उपकृत्यनिसर्गतः परेषा-
मुपरोधं न हि कुर्वते महान्तः ॥

मल्लिनाथः व्यगमन्निति ॥ घनाघनौघाः वर्युकाब्दसमूहाः । `शक्रधातुकमत्तेभवर्षकाव्दा घनाघनाः` इत्यमरः । शिखिनमग्निं शमयित्वा सहसा दिशां मुखेभ्यो व्यगमन्नपसत्रुः । गमेलङि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । तथा हिमहान्तो निसर्गतः स्वभावादेव परेषां उपकृत्य उपकारं कृत्वा उपरोधं न हि कुर्वते । महतां निष्फलावस्थानं परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
व्य न्स सा दि शां मु खे भ्यः
यि त्वा शि खि ना ङ्घ ना नौ घाः
कृ त्य नि र्ग तः रे षा
मु रो धं हि कु र्व ते हा न्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.