अभिवीक्ष्य विदर्भराजपुत्री-
कुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः
सहसावाप रुषा तदैव योगम् ॥

मल्लिनाथः अभीति ॥ चेदिराजः शिशुपालः । `राजाहःसखिभ्यष्टच्` (अष्टाध्यायी ५.४.९१ ) । विदर्भराजपुत्र्या रुक्मिण्याः कुचयोर्यकाश्मीरज कुङ्कुमं तच्चिह्नं यस्य तदच्युतोरः कृष्णवक्षः अभिवीक्ष्य चिरसेवितया चिरोपयुजापि । रुक्मिणीहरणात्प्रभृति संभृतयापीत्यर्थः । रुषा रोषेण तदैव तदानीमिवेत्युत्प्रेक्षा । सहसा योगं संबन्धमवाप । यथा कामी काम्यन्तरभोगचिह्नदर्शनोद्दीप्तः कान्तया संयुज्यते तद्वदित्यर्थः । परमार्थस्वरूप एव कोपो वैदर्भीकुचकुङ्कुमदर्शनादुद्दीपित इत्यर्थः । अत्र प्रकृतरुविशेषणसाम्यादप्रकृतकान्ताप्रतीतेः समासोक्तिः, उक्तोत्प्रेक्षा त्वङ्गमस्याः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
भि वी क्ष्य वि र्भ रा पु त्री
कु का श्मी चि ह्न च्यु तो रः
चि से वि या पि चे दि रा जः
सा वा रु षा दै यो गम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.