अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥

मल्लिनाथः अपीति ॥ किंच अनारभमाणस्य स्वयमकिंचित्कुर्वाणस्यापि विभोः प्रभोः, व्यापकस्य च परैरन्यैर्नृपतिभिः, शङ्खभेर्यादिभिश्च उत्पादिताः संपादिताः, जनिताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद्गुणत्वं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत् स्वमहिम्नैव कार्यदेशं व्याप्नुवन् शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः । `गुणस्त्वावृ. त्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु` इति वैजयन्ती
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्य ना मा स्य
वि भो रु त्पा दि ताः रैः
व्र न्ति गु ता र्थाः
ब्दा वि हा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.