Loading data... On slow networks this could take a few minutes.
100%

धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।
सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥

मल्लिनाथः धृतेति ॥ धृतः प्रत्यग्रः शृङ्गाररस एव रागो यैस्तैरपीति विरोधः । रौद्रश्रृङ्गारयोर्विरोधित्वाद्धृतसिन्दूररञ्जनैरित्यविरोधः । अत एव विरोधाभासोऽलंकारः । `शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥` इति विश्वः । सरोषसंभ्रमैः द्विपैः रणे रौद्ररस एव क्रोधरस एव बभ्रे भृतः । कर्मणि लिट्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धृ प्र त्य ग्र शृ ङ्गा
रा पि द्वि पैः
रो म्भ्र मै र्ब र्भ्रे
रौ द्र णे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.