Loading data... On slow networks this could take a few minutes.
100%

अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥

मल्लिनाथः &#३२; अभग्नेति ॥ अभग्ना अभङ्गुरा वृत्ता वर्तुलाग्राश्च यास्ता अभग्नवृत्ताः । विशेषणसमासः । अन्यत्राचलितचरित्राः । बहुव्रीहिः । मुष्टिग्राह्यं मुष्टिधार्य मध्यं यासां ताः धनुर्लताः, अन्यत्र मुष्टिमेयमध्याः यौवनेनोद्धतैर्धृष्टैर्द्यप्तैश्च प्रसभाद्वलादाकृष्टाः सत्यः । एकत्र गुणेषु, अन्यत्र कचेषु चेति भावः । उच्चैस्तरां चक्रन्दुष्टंकारध्वनिं चक्रुर्धनुर्लताः; अन्यत्र चुकुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्रस्तुतधूर्तास्कन्दितपतिव्रताप्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वाकाव्यलिङ्गमङ्गाङ्गिभावेन संकीर्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ग्न वृ त्ताः प्र भा
दा कृ ष्टा यौ नो द्ध तैः
क्र न्दु रु च्च कै र्मु ष्टि
ग्रा ह्य ध्या नु र्ल ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.