वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥

मल्लिनाथः वाहनेति ॥ ततोऽनन्तरं मानमभिमानं अस्यति क्षिपतीति तस्सिन्मानासे पराहंकारहारिणि । कर्मण्यण् । मत्ताः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मत्तसारगराजेभे साराजी श्रेष्ठयुद्धे । आजेः पुंलिङ्गता ज्ञेया। भारी भारवान् पूर्ण ईहावतामुत्साहवतां जनानां ध्वनियस्मिंस्तत् भारीहावज्जनध्वनि यथा तथा न नमतीत्यनमा अभङ्गुरा । पचाद्यजन्तेन नञ्समासः । वाहना निर्वाहयितृत्वम् । `ण्यासश्रन्थो युच्` (अष्टाध्यायी ३.३.१०७ ) अजनि जाता । सैनिकानामित्यर्थात्सिद्धम् । जनेः कर्तरि लुङि `दीपजन-` (अष्टाध्यायी ३.१.६१ ) इत्यादिना चिण्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा ना नि मा ना से
सा रा जा मा तः
त्त सा रा जे भे
भा री हा ज्ज ध्व नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.