व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥

मल्लिनाथः व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्व्यक्ता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । `हृदयं वक्षसि स्वान्ते` इति विश्वः । विरोधाभासोऽलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्क्ता सी रि ता रि णां
त्त दी या स्त दा मु हुः
नो हृ तो ऽपि हृ ये
ले गु रे षां त्रि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.