अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥

मल्लिनाथः अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं । रणोऽटवीवेत्युपमितसमासः । अग्निवदिति तद्धितौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवो वंशा इव । `वेणुमस्करतेजनाः` इति वंशपर्यायेष्वमरः। तान् दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छ्लेषाच्च अग्निवदग्नितुल्यम् । `तेन तुल्यम्-` (अष्टाध्यायी ५.१.११५ ) इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्र `अग्निवत्` इति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाच्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्ननुष्टुभं वृत्तम् । `पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम् ॥` इति तल्लक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तत्र यमकलक्षणमुक्तं दण्डिना-`अव्यपेतव्यपेतात्मा व्यावृत्तिवर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यान्तसर्वतः ॥` इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थो त्त स्थे णा व्या
सु हृ द्वे णु दा रि णा
नृ पा ङ्घ्रि पौ सं र्षा
ग्नि द्वे णु दा रि णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.