Loading data... On slow networks this could take a few minutes.
100%

भग्नेऽपीभे स्वे परावर्त्य देहं
योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।
साकं यन्तुः संमदेनानुबन्धी
दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ॥

मल्लिनाथः भन्नेऽपीति ॥ स्वे स्वकीये इभे गजे भग्नेऽपि देहं स्वाङ्गं परावर्त्य प्रतिपक्षाभिमुखमावर्त्य । वृतेण्य॑न्ताल्लयप् । अण्यन्तस्त्वपपाठः । अकर्मकस्य कर्मानन्वयात् । व्रीडया सामिषून्मुञ्चता। इषुमोक्षणेन स्वगजभङ्गव्रीडां निरस्यतेत्यर्थः । योद्धा भग्नेभस्थेन भटेन कर्त्रा अभीक्ष्णं दून इषुभिस्तप्तः । `ल्वादिभ्यः` (८।२। ४४) इति निष्ठानत्वम् । अनुबध्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन हर्षेण सह । `प्रमदसंमदौ हर्षे` (अष्टाध्यायी ३.३.६८ ) इति निपातः । प्रत्यरोधि प्रतिरुद्धः । तत्प्रतिरोधेन तत्संमदस्यापि प्रतिरोधव्याप्तेरिति भावः । `साकं साधं समं सह` इत्यमरः । अत्र व्रीडितेषुमोक्षयोः संमदयन्तृप्रतिरोधयोश्च कार्यकारणयोस्तत्पौर्वापर्यविपर्ययरूपातिशयोक्त्या सहभावोक्तेः सहोक्तिः संकीर्यते
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ग्ने ऽपी भे स्वे रा र्त्य दे हं
यो द्ध्रा सा र्धं व्री या मु ञ्च ते षून्
सा कं न्तुः सं दे ना नु न्धी
दू नो ऽभी क्ष्णं वा णः प्र त्य रो धि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.