Loading data... On slow networks this could take a few minutes.
100%

पुरा शरक्षतिजनितानि संयुगे
नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
इति ध्रुवं व्यलगिषुरात्तभीतयः
खमुच्चकैरनलसखस्य केतवः ॥

मल्लिनाथः पुरेति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि असृञ्जि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पङ्कतां पुरा नयन्ति नेष्यन्ति । यावत्पुरानिपातयोर्लट्` (अष्टाध्यायी ३.३.४ ) इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमात्तभीतयः प्राप्तभयाः सन्तोऽनलसखस्याग्निमित्रस्य वायोः केतवो रेणवः । तल्लिङ्गत्वात्तस्येति भावः । उच्चकैरुन्नतं खमाकाशं व्यलगिषुः । वियदारूढा इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
पु रा क्ष ति नि ता नि सं यु गे
न्ति नः प्र सृ ञ्जि ङ्क ताम्
ति ध्रु वं व्य गि षु रा त्त भी यः
मु च्च कै स्य के वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.