उपाहितैर्वपुषि निवातवर्मभिः
स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
निरन्तरं नरपतयो रणाजिरे
रराजिरे शरनिकराचिता इव ॥

मल्लिनाथः उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरामुक्तैः स्फुरन्तो मणिप्रसृता रत्ननिर्गता मरीचय एव सूचयो येषां तैः निवातवर्मभिरच्छिन्द्रकञ्चुकैः । `निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च` इति विश्वः । `तनुत्रं वर्म कञ्चुकम्` इत्यमरः । निरन्तरं नीरन्ध्रं शरनिकरैराचिताः प्रोता इव रराजिरे । `फणां च सप्तानाम्` (अष्टाध्यायी ६.४.१२५ ) इति विकल्पादेत्वाभ्यासलोपाभावः । मणिरोचिषः सादृश्याच्छरनिकरत्वोत्प्रेक्षा
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
पा हि तै र्व पु षि नि वा र्म भिः
स्फु न्म णि प्र सृ री चि सू चि भिः
नि न्त रं यो णा जि रे
रा जि रे नि रा चि ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.