समाकुले सदसि तथापि विक्रियां
मनोऽगमन्न मुरभिदः परोदितैः ।
घनाम्बुभिर्बहुलितनिम्नगाजलै-
र्जलं न हि व्रजति विकारमम्बुधेः ॥

मल्लिनाथः समाकुल इति ॥ परोदितैः शत्रुवाक्यैः सदसि आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेर्मनो विक्रियां क्षोभं नागमत् । तथा हि—बहुलितानि बहुलीकृतानि क्षोभितानि निम्नगाजलानि यैस्तर्घनाम्बुभिर्मेघोदकैरम्बुधेर्जलं विकारं न व्रजति । यथा वर्षोदकैनद्यः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्तालंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मा कु ले सि था पि वि क्रि यां
नो ऽग न्न मु भि दः रो दि तैः
ना म्बु भि र्ब हु लि नि म्न गा लै
र्ज लं हि व्र ति वि का म्बु धेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.