अलघूपलपङ्क्तिशालिनीः
परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो
न विमुञ्चन्ति चिराय मेखलाः ॥

मल्लिनाथः अलध्वित्यादि ॥ यस्यारिस्त्रियः संपद्यनुभूतमापद्यप्यनुभवन्तीति वक्ष्यति तत्प्रकारेमेवाह । अधिरूढनितम्बभूमय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां, पाषाणानां च पङ्तिभिः शालन्त इति तच्छालिनीः । `उपलौ मणिपाषाणौ` इति विश्वः । परितो रुद्धमावृतं निरन्तरं सान्द्रं संनिहितं च अम्बरं वस्त्रमाकाशं च याभिस्ता अधिरूढनितम्बभूमीः आक्रान्तश्रोणिभागाः प्राप्तकटकभागाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र संपदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकृतत्वात्केवलप्रकृतगोचरः श्लेषः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
घू ङ्क्ति शा लि नीः
रि तो रु द्ध नि न्त रा म्ब राः
धि रू नि म्ब भू यो
वि मु ञ्च न्ति चि रा मे लाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.