अपराधशतक्षमं नृपः
क्षमयात्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां
त्वयि चक्षाम समर्थ एव यत् ॥

मल्लिनाथः अपराधेति ॥ नृपश्चैद्यः अपराधशतक्षमं राज्ञः शतापराधसहिष्णुं भवन्तं एकया क्षमया । एकापराधसहनेनेत्यर्थः । अत्येति अतिक्रामति । अपराधकोटीनामपि तस्यांशेनापि साम्यासंभवादिति भावः । तामेव क्षमां दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणीं हृतवत्यपि समर्थः प्रतीकारक्षम एव सन्नपि चक्षाम क्षाम्यति स्मेति यत् तया क्षमयेत्यर्थः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रा क्ष मं नृ पः
क्ष या त्ये ति न्त मे या
हृ त्य पि भी ष्म का त्म जां
त्व यि क्षा र्थ यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.