Loading data... On slow networks this could take a few minutes.
100%

अथवाभिनिविष्टबुद्धिषु
व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः
करजालं कमलाकरेष्विव ॥

मल्लिनाथः अथवेति ॥ अथवा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचित्तेषु विषये सुभाषितं हितोपदेशवचनं रविरागिषु तपनानुरक्तेषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां निरर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयेति भावः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वा भि नि वि ष्ट बु द्धि षु
व्र ति व्य र्थ तां सु भा षि तम्
वि रा गि षु शी रो चि षः
जा लं ला रे ष्वि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.