Loading data... On slow networks this could take a few minutes.
100%

हरिमर्चितवान्महीपति-
र्यदि राज्ञस्तव कोऽत्र मत्सरः ।
न्यसनाय ससौरभस्य
कस्तरुसूनस्य शिरस्यसूयति ॥

मल्लिनाथः हरिमित्यादि ॥ महीपतिर्युधिष्ठिरो हरिमर्चितवान्यदि पूजितवांश्चेत् । अत्र हर्यर्चने तव राज्ञश्चैद्यस्य मत्सरः कः । न कोऽपीत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुसूनस्य । तरुग्रहणं सूनस्य साधारणत्वद्योतनार्थम् । शिरसि न्यसनायार्पणाय` कोऽसूयति । न कोपीत्यर्थः । `क्रुधद्रुह-` (१।१४।३७) इत्यादिना संप्रदानसंज्ञा । सर्वत्र गुणवद्वस्तु गुणज्ञैर्बहु मन्यते, तटस्थानां किमत्र वृथा संतापेनेति भावः । अत्र हरितरुसूनयोर्वाक्यद्वये बिम्बप्रतिबिम्बभावेनार्चनाशिरोधारणारूपसमानधर्मनिर्देशादृष्टान्तालंकारः
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
रि र्चि वा न्म ही ति
र्य दि रा ज्ञ स्त को ऽत्र त्स रः
न्य ना सौ स्य
स्त रु सू स्य शि स्य सू ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.