शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥

मल्लिनाथः शठेति ॥ अपरा स्त्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ वञ्चक, नाकलोकललनाभिः । अप्सरोभिः सहेत्यर्थः । सहयुक्तेऽप्रधाने` (अष्टाध्यायी २.३.१९ ) इति सहार्थे तृतीया, वृद्धो यूनेतिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः सन्नन्ताल्लट् । `पूर्ववत्सनः` (अष्टाध्यायी १.३.६२ ) इत्यात्मनेपदम् । तेनाप्सरोरिरंसाकरणेन मुदं वहसीति ईर्ष्यया सापत्रयाक्षमया अवदत् । अर्थाद्विरहासहनया प्रस्थानप्रतिषेधपरया व्याहृतमिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईर्ष्यात्र कण्ठोक्त एव संचारी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.