अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥

मल्लिनाथः अचिरादिति ॥ किंच मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य संबन्धि तीक्ष्णैर्विशिखमुखैः पीतम् । मद्वाणोच्छिष्टमित्यर्थः । असृक् रक्तमुर्वरा भूमिः । `उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके` इति विश्वः । पततां गणैः पक्षिसमूहैः । `पतत्पत्ररथाण्डजाः`इत्यमरः । सार्धमचिरात्पिबतु । अद्यैवाहमेनं हनिष्यामीत्यर्थः । अत्राप्यमर्ष एवेति भावः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.