Loading data... On slow networks this could take a few minutes.
100%

अनिशान्तवैरदहनेन
विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहितेन भृशं
नरकात्मजेन तरुणेव जज्वले ॥

मल्लिनाथः अनिशान्तेति ॥ अनिशान्तोऽनिर्वाणो वैरदहनो विरोधाग्निर्यस्य तेन अत एवान्तरभ्यन्तरे आर्द्रतां सारस्यं विरहितवता त्यक्तवता । रहयतेः क्तवतुप्रत्ययः । कोपो मरुदिव तेनाभिहतः प्रज्वलितः तेन नरकात्मजेन वेणुदारिणा तरुणा वृक्षेणेव भृशं जज्वले ज्वलितम् । भावे लिट् । उपमालंकारः
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
नि शा न्त वै ने
वि हि ता न्त रा र्द्र ताम्
को रु भि हि ते भृ शं
का त्म जे रु णे ज्व ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.