यदपूपुजस्त्वमिह पार्थ
मुरजितमपूजितं सताम् ।
प्रेम विलसति महत्तदहो
दयितं जनः खलु गुणीति मन्यते ॥

मल्लिनाथः [ * वल्लभेन त्वितः प्रभृति अष्टत्रिंशत्संख्याक( अयमुग्रसेन )श्लोकपर्यन्तं व्याख्यानं न कृतम् । किंतु अग्रे मल्लिनाथेन प्रक्षिप्तत्वेन निर्दिष्टा एव व्याख्याताः । १२९९ शकलिखितपुस्तके त्वेतेऽपि श्लोका उपलभ्यन्ते तेऽपि च ।]&#३२; यदिति ॥ हे पार्थ पृथापुत्रेति मातृप्राधान्येनामन्त्रणं मर्मोद्धाटनार्थम् । सतामपूजितम् । सद्भिरपूज्यमानमित्यर्थः । `मतिबुद्धिपूजार्थेभ्यश्च` (अष्टाध्यायी ३.२.१८८ ) इति वर्तमाने क्तः । `क्तस्य च वर्तमाने` (अष्टाध्यायी २.३.६७ ) इति षष्ठी । मुरजितं कृष्णं इह सदसि यद्यस्मादपूपुजः पूजयसि स्म । णौ चङ्युपधाया ह्रस्वः` (अष्टाध्यायी ७.४.१ ) तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाभिमान इत्यभिप्रेत्याह -जनो लोकः दयितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्योत्तरवाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः उद्गता []
छन्दोविश्लेषणम्
१० ११ १२ १३
पू पु स्त्व मि पा र्थ
मु जि पू जि तं ताम्
प्रे वि ति त्त हो
यि तं नः लु गु णी ति न्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.